SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ( ५१ ) आत्मज्ञानं प्रकर्तव्यं, जडज्ञानं ततः क्रमात् । देहाहारादिकर्माणि, कार्याणि हि विवेकतः ॥५०० ॥ देहादेहा॑नि लाभादि,-कार्यं ज्ञात्वा विवेकतः। शरीरावधि तद् योग्यं, कर्तव्यं स्वोपयोगतः ॥५०१॥ रागो द्वेषस्तथा कामो, लोभः क्रोधश्च वैरिता । कीर्त्यादिवासनासंगं, संगमेव विजानत ॥ ५०२ ॥ स ज्ञेयः सत्त्यनिस्संगी, बाह्यविषयसंग्यपि । कामसंगं विना बाह्य,-संगेषु नास्ति बद्धता ॥ ५०३॥ निर्जिता नामरूपादि,-वासना येन योगिना । क्रियते तेन सत्प्रीत्या, साक्षात्कारो निजाऽऽत्मनः।५०४। निर्जितकामसंगस्य, हृदि व्यक्तो भवेत्प्रभुः लोकैषणादिमुक्तेन, मुक्तिरत्रैव वेद्यते ॥५०५ ॥ सर्वसंगेषु निस्संगः, कामो येन विनिर्जितः। विषयसंगमुक्तोऽपि, कामेन संगवान् खलु ॥ ५०६ ॥ प्रान्तरसंगनिस्संगो, जनो विश्वस्य संगतः । निस्संगस्तस्य बाह्यस्य, त्यागे नास्ति प्रयोजनम् ।५०७१ देहादीनां च सम्बन्धा,-निस्संगो मोहवर्जितः । मोहादिसंगतः संगी, बाह्यत्यागी वनस्थितः ॥५०८॥ अहंत्वंममताग्रन्थि, यस्य नष्टो विवेकतः । बाह्यलक्ष्म्या च किं तस्य, अन्तराऽऽत्मविदेहिनः ।५०६। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy