________________
(४७ ) आत्मानन्दस्य विश्वासा,-दुत्साहोऽनन्तजीवनम् । प्रादुर्भवति सज्ज्ञानं, चाञ्चल्यं न प्रवर्तते ॥ ४६० ॥ स्वामित्वं यच्च दासत्वं, जडारोपेण कल्पितम् । तत्तु मिथ्याऽस्ति दासत्वं, स्वामित्वं न स्वभावतः॥४६१॥ त्वमाऽऽत्मा निर्भयो नित्यो, निर्मलानन्दधारकः । अक्षयो निश्चलः पूर्ण, आधिव्याधिविवर्जितः ॥४६२॥ अरूपं ते स्वरूपं हि, दर्शनज्ञानवान्प्रभुः । अनन्तशक्तिसम्पन्नः, सत्तातस्त्वमजोऽव्ययः ॥४६३॥ अनन्तगुणपर्यायाऽऽ,-धारोऽसि त्वं महामहः । अनन्तजीवनाऽऽत्मा त्वं, स्वस्वरूपी भव स्वयम्॥४६४॥ शुद्धध्येयं हृदि स्मृत्वा, स्वकर्तव्यं कुरुष्व भोः । जागृहि ब्रह्मभावेन, शुद्धाऽऽत्मा त्वं भविष्यसि ॥४६५॥ दैन्यं मा कुरु मोहेन, विश्वदेवोऽसि चेतन !। जडभिक्षां च याचन्ते, ते दीनाश्चक्रिणोऽपि हि ॥४६६॥ नाहं दीनो न दाताऽस्मि, नाहं कामो न कामवान् । नाहं पुंवेदरूपोऽस्मि, नाहं निद्रा न निद्रकः ॥४६७॥ सच्चिदानन्दरूपोऽस्मि, नाहं कर्म न कर्मवान् । नाहं जडो जडाद्भिन्न,-श्चादृश्योऽलक्ष्यरूपवान् ॥४६॥ शुद्धध्येयस्वरूपोऽस्मि, चैकोऽनेको न नाश्यहम् । ज्ञातृज्ञेयस्वरूपोऽहं, स्वपरस्य प्रकाशवान् ॥ ४६९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com