________________
(४६) नाऽहं मानं न दम्भोऽहं, नाऽहं कामो न वैरवान् । न शत्रुर्नास्मि वा मित्रं, पिता माता न बालकः॥४५०॥ नाऽहं वृद्धो युवा रोगी, नारको न च देवता । नाऽहं तिर्यग्ननामाऽहं, नाऽहं दृश्यो न तारकम्॥४५१॥ प्रकाशो न तमो नाऽहं, नाऽहं भानुः शशी ग्रहः । नास्मि पापं तथा पुण्यं, पुद्गलो न च पुद्गली ॥४५२॥ नाहं जन्म जरा मृत्यु,- हंभोगो न भोगवान् । नाऽहं दया नहिंसाऽहं, निन्दा कीर्ति ने वित्तवान् ॥४५३॥ विश्वमस्मिन् नच विश्वस्थो, न प्रेमी प्रेमवानपि । नाहं गृहं रणं नास्मि, नाऽहं मस्जिच्च मन्दिरम् ॥४५४॥ स्वकीयः परकीयो न, विश्वरूपो न विश्ववान् । निरक्षरोऽक्षरोव्यक्तो, भिन्नोऽस्मि सर्वविश्वतः॥४५५॥ सात्त्विकोऽहं न दुष्टोऽहं, नाहं व्रती व्रतं च न।। नाहं देवो वचो नाडी, न चाहमिन्द्रियाणि वै ॥४५६॥ नाहमिन्द्रो न रङ्कोऽपि, चार्यम्लेच्छो न वस्तुतः । कलकं न प्रतिष्ठाऽऽहं, मनोऽतीतो निरञ्जनः ॥४५७॥ सर्वपुद्गलपर्याय,-भिन्नाऽऽत्मानन्तबोधवान् । अहं त्वं तत्प्रभिन्नोऽस्मि, व्यवहारी न निश्चयी ॥४५८॥ दासत्वं जडभीत्याऽस्ति, प्रभुत्वं निर्भयत्वतः। उत्साह आत्मविश्वासा,- निरुत्साहस्तु मोहतः ॥४५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com