________________
(४५) कर्मप्रकृतिसम्बन्ध,-स्य वियोगो भवेद्यदा । तदाऽऽत्मनो हि मोक्षोऽस्ति,कर्ताऽऽत्मा स्यानिजाऽऽत्मनः प्रकृतौ रागरोषौ न, यदा मुक्तो भवेत्तदा । प्रकृतौ कर्तृबुद्धि नै, यस्य तस्य न बन्धता ॥४४१॥ प्रकृतिः प्रकृतेः की, स्वाऽऽत्मा कर्ता निजाऽऽत्मनः । इत्येवं साक्षिबुद्ध्या यो, वेत्ति तस्य न बन्धता ॥४४२॥ विश्वस्थोऽपि न विश्वस्थो, विदेहो देहवानपि । नप्राणा: प्राणसंस्थोऽपि, कर्मसङ्गी न कर्मवान्॥४४३॥ शब्दवाच्यो न शब्दोऽहं, न च ह्रस्वो गुरुस्तथा । नाऽहं स्नेहो नवा रुक्षो, नाऽहं स्थूलो न वर्तुलः ॥४४४॥ नाऽहं कृशस्तथा स्थूलो, नाऽहं कृष्णो न पीतकः । रक्तो नास्मि तथा श्वेतो, नीलो नास्मीति वेम्यहम्।४४५॥ न सुगन्धो न दुर्गन्धः, शीत उष्णो न चाऽस्म्यहम् । नाऽहं तिक्तो न मिष्टोऽहं, कटुकोऽहं न वस्तुत: ॥४४६॥ नाऽहं पृथ्वी नचाकाश,-मग्निर्वायु न वार्यहम् । नाऽहं स्वर्गश्च पाताल,-मेकोऽहं विश्वसङ्गयपि ॥४४७॥ नाऽहं नरो न नारी वा, नपुंसको न वेम्यहम् । अवर्णो न च वर्णोऽह, मुञ्चनीचो न वस्तुतः ॥४४८॥ गृहस्थोऽहं न सन्न्यासी, सर्वरूपविवर्जितः । नाऽहं रागो न रोषोऽहं, नाऽहं क्रोधो न लोभवान्॥४४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com