SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ( ४४ ) अन्य दर्शनधर्मेषु, यत्सत्यं च प्रदृश्यते । , तत्सत्यं जैनधर्मस्य, - ज्ञेयं सापेक्षदृष्टितः ॥ ४३० ॥ सर्वनयादिसापेक्ष - दृष्ट्या मध्यस्थदेहिनाम् । सद्देवगुरुधर्माणां - श्रद्धा ज्ञानं प्रकाशते ॥ ४३१ ॥ श्रात्मैव सद्गुरुर्देवो, धर्मश्च निश्चयात्स्वयम् । यस्याऽऽत्मा सद्गुरुर्जात, स्तस्याऽऽत्मा जायते प्रभुः । ४३२ ॥ आत्माधीना भवेद्यस्य, प्रकृतिस्तस्य वेगतः । आत्मोन्नतिर्भवेत्स्पष्टा, ज्ञानं सुखं च वर्द्धते ॥४३३॥ प्रकृतियोगमालम्ब्य ज्ञानानन्दस्य रूपकम् | प्रकाशन्ते निजाऽऽत्मानं, जनाआत्मपरायणाः ॥ ४३४ ॥ आत्मनो न विकाशोऽस्ति, कदाचित्प्रकृतिं विना । प्रकृतिस्थोऽपि निःसङ्गो, ज्ञानी भवति केवली ॥ ४३५॥ प्रकृतिर्ज्ञेयरूपाऽस्ति, चाऽऽत्मा ज्ञानस्य रूपवान् । आत्मा तु प्रकृतिं वेत्ति, प्रकृति र्न च चेतनम् ॥४३६ ॥ प्रकृतिनायकः स्वाऽऽत्मा, प्रकृति र्हि जडं जगत् । आत्मा प्रकृतिकार्याणां - कर्ताऽपि चाक्रियः स्वयम् । ४३७| प्रकृतिसर्वकार्येषु, साक्ष्याऽऽत्मा हि भवेद्यदा । तदाऽऽत्मा प्रकृतेर्योगा, - न्निर्बन्धः सक्रियोऽपि वै ॥ ४३८ ॥ असंख्यात प्रदेशोऽह, - मात्मा विश्वप्रभु विभुः । अनादिकालतो बन्ध, - स्तस्य प्रकृतियोगतः ॥४३६॥ " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy