________________
(४३) परस्परविरुद्धा ये, सर्वे धर्मा जगत्तले । वैद्यानामिव लोकानां, भवन्ति चित्तशुद्धये ॥ ४२० ॥ वैद्यौषधिमहारोग,-चैविध्यं च यथातथम् । सर्वदर्शनधर्माणां,-वैचित्र्यं चित्तशुद्धये ॥ ४२१ ॥ वैद्या ओषधयो रोगा, विविधाश्च यथा तथा । धर्माश्च गुरवः सर्वे, ह्याचारा विविधा मताः ॥४२२॥ तारतम्यं च वैद्येषु, रोगेषु ह्यौषधादिषु । तथा वक्तृषु धर्मेषु, धर्मकर्मसु दृश्यते ॥ ४२३ ॥ इत्येवं जैनधर्मस्य,-स्याद्वादज्ञानबोधतः । ज्ञाता मया जगद्धर्मा, जैनधर्मस्य चाङ्गकाः ॥ ४२४ ॥ सर्वधर्मा नदीरूपा, जैनधर्ममहोदधिम् । यान्ति सापेक्षदृष्ट्या ते, चानादिकालत: खलु ॥४२५॥ जैनधर्मो नयैः सर्वै,-युक्तो वैराटप्रभुः स्वयम् । तदङ्गाः सर्वधर्माः स्यु,-र्भाषितं पूर्वसूरिभिः ॥४२६॥ जैनधर्मस्तु विज्ञेयो, विश्वधर्मो ह्यतः खलु । साधिते जैनधर्मे तु, सर्वधर्माः प्रसाधिताः ॥४२७॥ सागरस्य तरंगा ये, भिन्ना न सागराद्यथा । तथा भिन्ना न धर्मा: स्युः, जैनधर्मोदधे: खलु ॥४२८॥ यथोदधिं विना न स्युः, तरङ्गाश्च तथा मतम् । जैनधर्म विना सर्व, धर्मान्विद्धि ह्यपेक्षया ॥४२६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com