________________
(४८) मत्तः प्रकाशते विश्व, विश्वतो न प्रकाश्यहम् । जडेषुमत्समः कोऽपि, नास्ति स्वान्यप्रकाशकः॥४७०॥ जडद्रव्येषु वेत्तृत्वं, नास्ति सत्यं वदाम्यहम् । प्रत्यक्षोऽहं जगद्वेत्ता, देहस्थः सत्यनिश्चयः ॥४७१॥ प्रमाणमत्र मज्ज्ञानं, प्रत्यक्षं व्यावहारिकम् । अनन्तज्ञानपूर्णोऽहं, सत्तया कथ्यते मया ॥ ४७२ ॥ अनन्तधर्मपूर्णोऽहं, भविष्यामि हि शक्तितः । कर्मावरणनाशेन, भाविनि भगवानहम् ॥ ४७३ ॥ सुखं नास्ति बहिष्किञ्चि,-रसुखं पूर्ण निजाऽऽत्मनि । इत्येवं निश्चयं कृत्वा, ज्ञानध्यानं करोम्यहम् ॥४७४॥ बाह्यपदार्थलाभेन, किश्चिद्वृद्धिर्न मे खलु । बाह्यहान्या न हानिमें, मयैवं निश्चयः कृतः ॥४७५॥ लोकानां स्तुतिनिन्दातो, लाभो हानिर्न मे खलु । लोकैषणादिसंज्ञातो, भिन्नाऽऽत्मा निश्चयः कृतः ॥४७६॥ लोकैषणादिसंज्ञातो, मुह्यामि न स्वबोधतः । इत्येवं वर्तनादाऽऽत्मा, पूर्णानन्दोऽनुभूयते ॥४७७॥ लोकसंज्ञा जिता येन, नामरूपादिवासना । मुक्तिस्तेन कृता हस्ते, जितं सर्वं च तेन हि ॥४७८॥ लोकैषणादिभिर्मुक्तो, मुक्त एव न संशयः । सर्वकर्माणि कर्तुं स, योग्यो भवति मानवः ॥१७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com