________________
(80)
श्रात्मनो नवधाभक्ति, विना किञ्चिन्न रोचते । यस्य तस्य हि भक्तस्य, हृदि व्यक्तः प्रभुर्भवेत् ॥ ३६०॥ ब्रह्मणो भावनादृष्टिः, सर्वत्र व्यापिका यदा । तदाऽऽत्मनः समष्टित्वं जायते ज्ञानशक्तितः ॥३६१॥ विराट्प्रभुर्निजाऽऽत्मैव, केवलज्ञानशक्तितः । व्यष्टिसमष्टिरूपोऽस्ति, शक्तिव्यक्तिस्वरूपतः ॥३९२॥ अध्यात्मशान्तिवाञ्छा चे, - कुरु ब्रह्मप्रचिन्तनम् | देहाभ्यासविनिर्मुक्त्या - ब्रह्मशान्तिः प्रकाशते ॥ ३९३॥ सर्वजातीय संकल्प - विकल्पस्य निरोधतः । आत्मशान्तिर्भवेत्पूर्णा, नान्यथा कोटियत्नतः ॥ ३६४॥ अहंवृत्त्या मृतोभक्तो, ब्रह्मरूपेण जीवति । जीवन्सन्नपि स ज्ञेयो, मृतो मोहेन जीवकः ॥ ३६५॥ आत्मानन्दरसी ज्ञानी, मोक्षार्थं देहधारकः । प्रवृत्तौ वा निवृत्तौ वा, समभावेन वर्तकः ॥ ३६.६ ॥ जीवे जीवे मतिभिन्ना, रुचिर्भिन्ना स्वकर्मतः । मुहुर्मुहुः प्रजायन्ते, नवीनाः बुद्धिपर्यवाः ॥ ३६७॥ विचारा न स्थिराः सन्ति, विश्वस्थ सर्वदेहिनाम् । उत्पादश्च विनाशो हि, विचाराणां भवेत्सदा ॥ ३६८ ॥ यावन्मनो भवेत्ताव, - द्विचाराचारभेदता । विश्वस्थ सर्वलोकानां, - दर्शनधर्मकर्मसु
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ ३६६ ॥
www.umaragyanbhandar.com