________________
(४१ ) विश्वस्थसर्वजीवानां,-वैचित्र्यं दृश्यते च यत् । तत्तु मनः प्रभेदेन, तथा कर्मप्रभावतः ॥४० ॥ अतो विचारकार्याभ्यां, धर्मैक्यं विश्वदेहिनाम् । न भूतमद्यपर्यन्तं, भाविनि न भविष्यति ॥ ४०१ ॥ मनोभेदेषु लोकेषु, ज्ञानी समत्वधारकः । आत्मज्ञानोपदेशश्च, ददाति विश्वदेहिनः ॥ ४०२ ॥ मनोविचारभेदैश्च, धर्माचारेषु भेदता।. राज्यादिकप्रवृत्तीनां, सर्वत्र भेदता भुवि ॥ ४०३ ॥ अनादिकालतो भेदो,-ऽभूच्च भाविनि वय॑ति । युद्ध्यन्ति मोहिनस्तेन, शस्त्रास्त्रमंत्रतः सदा ॥४०४॥ मनःकर्मादिभेदस्तु, वर्तते सर्वदेहिनाम् । विचाराचारभेदेन, योद्धव्यं न कदाचन ॥४०५॥
आत्मज्ञानस्य लाभेन, मनोलयो भवेद्यदा । तदा निजाऽऽत्मना सार्ध, विश्वैक्यं सर्वथा भवेत् ॥४०६॥ विचाराचारभेदेन, यत्सख्यं तन्मनः कृतम् । तत्सख्यं क्षणिकं ज्ञेयं, मनोभेदान्न शाश्वतम् ॥४०७॥ विचाराचारतो भिन्नं, यत्सख्यमाऽऽत्मनः खलु । शाश्वतं निर्विकल्पं च, अनन्तसुखदायकम् ॥४०८॥ सर्वथा सर्वदा नृणां, विचाराचारतुल्यता । तया मैत्री न भूता हि, भाविनि न भविष्यति ॥४०६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com