SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ( २९ ) स्पर्शेन्द्रियादिभोगेभ्यो, जन्यं परवशं सुखम् । वस्तुतो दुःखमेवास्ति, तत्रज्ञानी न मुह्यति ॥ २८०॥ जडभोग सुखेच्छात, - स्तत्प्रवृत्तिः प्रजायते । ततः क्रोधादयो दोषाः भवन्ति दुःखदायिनः ॥ २८९ ॥ कामदेहादि भोगानामिच्छा च परतन्त्रता । ततो मोहेन हिंसाय - पापाद्दुःखं प्रवर्तते ॥ २८२ ॥ जडानन्दाय विश्वस्थ लोकानां हि प्रवर्तनम् । स्वल्पं किञ्चित्सुखं तेषां भृशं दुःखपरम्परा ॥ २८३ ॥ प्रत्यक्षं तत्प्रविज्ञाय, तथापि सुखकांक्षिणः । जडभोगेषु मुह्यन्ति, विरमन्ति न मोहतः ॥ २८४ ॥ बाह्यतः सुखमन्तारः पराधीनाश्च चक्रिणः । स्वस्मिन् सुखं न जानन्ति, रुदन्ति जडमोहतः ॥२८५॥ आत्मन्येव सुखं सत्यं, बाह्येषु न सुखं क्वचित् । ज्ञात्वा ज्ञानी स्वतन्त्रं स्वं, सुखं याति निजाऽऽत्मनः ॥ २८६ ॥ जडानन्दाय मन्यन्ते, राज्यं स्त्रियं धनादिकम् । क्रोधं मानं च मायां च लोभं तदर्थसेविनः ॥२८७॥ मनोवाक्काययोगानां - प्रवृत्तिर्जडशर्मणे । क्रियमाणा भृशं दुःखं, याति च स्वप्नवत्सुखम् ॥२८८॥ मधुबिन्दोरिव स्पष्टं, - पुखं सांसारिकं जनैः । भुज्यते च ततः पश्चान्महादुःखपरम्परा ॥ २८६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy