________________
( ३० )
श्रधिजं व्याधिजं दुःखमुपाधिजं भृशं जनैः । भुज्यते तत्प्रविज्ञाय, यतस्त्र ब्रह्मशर्मणे ॥ २६० ॥ आत्मानन्दाय देहाद्यं, - संयमयोगसाधनम् । दर्शनज्ञानचारित्रमोक्षमार्गोऽस्ति साधनम् ॥ २६१ ॥
आत्मानंदाय देहादि, - जीवनं तत्प्ररक्षणम् । देहादिकं समालम्ब्य स्वाऽऽत्मा संजायते प्रभुः ॥२६२॥ बाह्यसातप्रभोक्ताऽस्ति, ब्रह्मानन्दप्रभोज्यपि । तीव्रनिकाचितव्यक्तप्रारब्धपुण्ययोगतः ॥ २६३ ॥ एकवारमपि प्राप्त आत्मानन्दरसः खलु । तेन बाह्यसुखप्राप्त्यै, प्रयत्नो न विधीयते ॥ २६४ ॥ श्रात्मानन्दरसप्राप्त्या, जडानन्दो न रोचते । तथापि कमतो भोगी, भोगी ब्रह्मणि स्थितः ॥ २६५ ॥ आत्मानन्दरसस्वादा, जडानन्दो निवर्तते । इच्छति न ततः पश्चा, - दाऽऽत्मा जडसुखं खलु ॥ २६६ ॥ बाह्यराज्यादिकर्तार उद्विग्ना जडशर्मणि । श्रात्मानन्दप्रकाशाय, भवन्ति त्यागिनो जना ॥ २६७ ॥ आत्मानन्दप्रकाशार्थ मिच्छाऽस्ति सर्वयोगिनाम् । आत्मानन्दरसास्वादं, विना स्थैर्यं न यान्ति ते ॥ २६८ ॥
श्रात्मानुभवयोगेन, ब्रह्मानन्दः प्रकाशते । आनन्दानुभवी सैव, निर्विकल्पसमाधिमान् ॥२६३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
"