SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ (२८) क्षायिकं यत्सुखं तत्तु, पूर्णानन्दः प्रकथ्यते। जीवन्मुक्तः सुखं नित्यं, भुनक्ति ब्रह्मजीवकः ॥२७०॥ देहातीतस्य सिद्धस्य,-पूर्णानन्दः सदास्ति वै । सुखाय सर्वजीवानां, ब्रह्मज्ञानं प्रजायते ॥२७१॥ मुह्यन्ते ये जडानन्दे, मूढा हिंसादिभावतः । अतिदुःखं समायान्ति, भ्रान्त्वा भवे ह्यनेकशः॥२७२॥ परतन्त्रो जडानन्दः सर्वदुःखप्रदायकः । मोहिनस्तत्र मुह्यन्ति, लभन्ते न निजं सुखम् ॥२७३।। आत्मानन्दः स्वतन्त्रोऽस्ति, सर्वोपाधिविवर्जितः । अात्मवशं सुखं सत्यमाऽऽत्मनो दुःखनाशकम् ॥ २७४॥ परवशं सुखं नास्ति, किन्तु दुःखं भृशं सदा । राज्यभोगादिजन्यं यत्पराधीनं सुखं च तत् ॥२७५॥ आत्मानन्दाय भोगानां,-नास्ति किश्चित्प्रयोजनम् । भोगाय पारतन्त्र्यं तु, कुर्वन्ति ते हि मोहिनः ॥२७६॥ जडानन्दाय राज्यादि,-कार्येषु ये परायणाः रागद्वेषौ च कुर्वाणाः सुखं यान्ति न मानवाः ॥२७७॥ परस्परं प्रयुद्धयन्ति, राज्यदेशादिमोहतः । मोहाधीनाश्च ते भूत्वा, यान्ति दुःखपरम्पराम् ॥२७८॥ लक्ष्मीस्त्रीभूमिराज्यानां,-मोहेन मूढमानवाः । कुर्वन्ति जनताघातं, ततो यान्ति हि दुर्गतिम्॥२७६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy