SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ( २७ ) स्वानुभवः प्रमाणं हि, स्वाऽऽत्मानुभवदर्शने । आत्मानन्दश्च सज्ज्ञानं, स्वानुभवेन वेद्यते ॥२६॥ आत्मानुभवतो यस्य,-सुखं ज्ञानं प्रवेद्यते। तस्य वादविवादादे,-र्नास्ति किञ्चित्प्रयोजनम् ॥२६१॥ व्यक्तं ज्ञानं सुखं यस्य, तस्याऽऽत्मा व्यक्त इष्यते । तस्य प्रमाणहेतूनां, किञ्चिन्नास्ति प्रयोजनम् ॥२६२॥ व्यक्तज्ञानसुखस्यैव, वेत्ताहं व्यापकः स्वयम् । आत्मना स्वाऽऽत्मनि स्वाऽऽत्मा, मयानुभूयते स्वतः।२६३। व्यक्तज्ञानसुखाऽमाहं, क्षयोपशमभावतः । चायिकभावरूपेण, भविष्यामि हि भाविनि ॥२६४॥ वैषयिकसुखं तत्तु, भवेदिन्द्रियभोगतः। अतीन्द्रियं सुखं यत्तदाऽऽत्मसुखं स्वभावतः ॥२६॥ इन्द्रियविषयेभ्यो यज्जायमानं सुखं तु तद् । बाह्यं च क्षणिक क्षेयं, तत्र मोह्यं न साधुभिः ॥२६६॥ अात्मसुखं ततो भिन्नं, देहेन्द्रियविनिर्गतम् । क्षयोपशमभावेन, क्षायिकेण च जायते ॥२६७॥ अन्तर्मुहूर्तमानं तु, क्षायोपशमिकं सुखम् । नश्यति जायतेऽसंख्यवारं तत्तु मुहुर्मुहुः ॥२६८॥ क्षायिकभावसम्पन्न, माऽऽत्मसुखमतीन्द्रियम् । जायतेह्येकवारं तत्पुनस्तन्न विनश्यति ॥२६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy