________________
( २६ ) सर्वतस्त्वं प्रभिन्नोऽसि, चेतन !! स्वं विचारय । मग्नो भव स्वरूपे त्वं, किं बाह्येषु प्रधावसि ॥२५०॥ कोऽपि नास्ति त्वदीयो भो, ममेदमिति मा कुरु । श्रात्मानमन्तरा कोऽपि, तव नास्ति कदाचन ॥२५१॥ गृहादिवस्तुसार्थोऽपि, नैव साधं गमिष्यति । जारहि स्वाऽऽत्मरूपेण, मोहनिद्रां परित्यज ॥२५२॥ मोहनिद्रापरित्यागाद्, ब्रह्मरूपं विलोक्यते । समत्वं सर्वजीवेषु,-जडेषु च प्रजायते ॥२५३॥ अन्तर्ज्ञानं सुखं व्यक्त, माऽऽत्मरूपं तदेवहि । व्यक्तोऽस्ति जैनधर्मः स, विश्वधर्मश्च शाश्वतः ॥२५४॥ चिदानन्दमयं ब्रह्म,-पूर्णव्यक्तं यदा भवेत् । तदाऽऽत्मा हि परब्रह्म,सिद्धोऽस्ति भगवान्स्वयम्॥२५५॥ चिदानन्दमयं ब्रह्म,-धर्मेषु नास्तिकेषु च । व्यक्ताव्यक्तस्वरूपेण, सर्वत्रास्ति हि देहिषु ॥२५६॥ व्यक्तं ज्ञानं सुखं यत्र, तत्राऽऽत्मव्यक्तदर्शनम् । स्वानुभवप्रमाणेन, व्यक्तः सोऽहं प्रभुः स्वयम् ॥२५७॥ स्वानुभवेन शुद्धाऽऽत्मा, ज्ञानं सुखं च वेद्यते । तत्रान्यशास्त्रलोकानां,-नास्ति साक्षिप्रयोजनम्॥२५८॥ स्वानुभवं विना स्वाऽऽत्मा, बाह्यतो नानुभूयते । शास्त्रेण च विवादेन, व्याख्यानश्रवणादितः ॥२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com