SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ( २५ ) मा प्रीतिं कुरु जीवेषु, स्वार्थयुक्तेषु चेतन । स्वार्थिनः सन्ति पुत्राद्याः शिष्याद्याः स्वार्थरागिणः।२४०। वा मन्यं त्वां विना कोऽपि, प्रियं वेत्ति न मानवः। असारः सर्वसंसारः स्वार्थकामादिपूरितः ॥ २४१॥ स्वकीया देहसम्बन्धाः क्षणिकाः स्वप्नवन्मृषा । ज्ञात्वैवं त्वं परप्रीत्या, लीनो भव चिदाऽऽत्मनि ॥२४॥ संसारे सार आत्माऽस्ति, चिदानन्दमयः प्रभुः। तत्र मनोलयो यस्य, तस्य मुक्तिः प्रजायते ॥२४३॥ अशुभं च शुभं यच्च, चित्तेन तत्तु कल्पितम् । तत्र किश्चिन्न सारोऽस्ति, तत्रज्ञानी न मुह्यति ॥२४४॥ अशुभं च शुभं सर्व, कल्पितं तन्मृषा खलु । जानात्येव स्वयं ज्ञानी, मुक्तोद्वैतः प्रजायते ॥२४५॥ ब्रह्मभावनया स्वाऽऽत्मन !! देहिभिश्च जडैः सह। वर्तस्व स्वार्थरागादिमोहं त्यक्त्वा महीतले ॥२४६॥ प्रात्मभावेन संजीव्य, मत्वा च देहिनं प्रभुम् । विश्वस्थसर्वजीवानां,-सेवां कुरुष्व साक्षितः ॥२४७॥ साचिभावेन कार्याणि, कुरुष्व भव्यमानव । शुद्धाऽऽत्मा संभवस्वाऽऽत्मन् !! त्वत्कार्यमीदृशं खलु।२४८, स्वनामरूपकीतौ च, प्रतिष्ठायां च चेतन । शुभं प्रकल्पितं मिथ्या, तद्भिन्नं स्वं निभालय ॥२४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy