SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ( २४ ) आत्मज्ञानं हि विश्वस्थ,-लोकानां शान्तिकारणम् । आत्मज्ञानं हि लोकानां,-पूर्णानन्दप्रदायकम् ॥२३०॥ आत्मज्ञानं हि सर्वासां,-शक्तीनां मूलकारणम् । आत्मज्ञानं विना सत्य,-स्थैर्य कस्याऽपि नोभवेत्॥२३१॥ मनएवाऽस्ति संसारो, मनो भवस्य कारणम् । अात्मायत्तं मनः स्वगं, मोक्षं च विद्धि मानव ॥२३२॥ रागादिवासितं चित्तं, यावत्तव प्रवर्तते । तावत्संसारएवाऽस्ति, यद्योग्यं तत्समाचर ॥ २३३ ॥ प्रवर्तते यदा चित्तं, रागद्वेषविनिर्गतम् । तदाऽऽत्मा प्रभुरूपोऽस्ति, निर्मोहं स्वं मनः कुरु ॥३२४॥ स्वर्ग: श्वभ्रं च जीवोऽस्ति, शुभाशुभविचारतः । शुभाशुभमनोमुक्त, आत्मैव परमेश्वरः ॥ २३५ ॥ स्वार्थेन सर्वसम्वन्धा, बध्यन्ते सर्वदेहिभिः । स्वार्थ विना न सम्बन्धः केनाऽपि भुवि बध्यते ॥२३६॥ स्वार्थं विना न जीवानां, रागोऽस्ति न प्रवर्तनम् । श्रात्मनो मुक्तये कर्म, परमार्थं च तत्स्मृतम्॥२३७॥ अशुभं च शुभं स्वार्थ, त्यक्त्वा ब्रह्मणि रागिणः । निजाऽऽत्मानं परब्रह्म, कुर्वन्ति रागनाशतः ॥ २३८ ॥ सर्वत्र स्नेहसम्बन्धान्, मिथ्या ज्ञात्वा निजाऽऽत्मनि। लयलीनो भव प्रीत्या, मुह्यसि किं पुनः पुन ॥२३६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy