________________
मुक्तौ स्वर्गे च कर्तव्यं, समत्वमाऽऽत्मशुद्धिकृत् । स्वाधिकारेण कर्तव्यं, सर्वकार्य विवेकतः ॥९०॥ क्रियमाणेषु कार्येषु, दुःखं सां स्वधैर्यतः । विपत्तौ संकटे चाप्ते, शीघ्रमाऽऽत्मोन्नतिर्भवेत् ॥ ११ ॥ दुष्टशत्रुकृते घोरे, संकटे चाऽऽत्मशुद्धता। शुभेऽशुभे भवेदाऽऽत्म,-शुद्धिरध्याऽऽत्मवेदिनाम् ॥१२॥ युद्धेऽपि चाऽऽत्मसंशुद्धि-भॊगे रोगे वने रणे । अध्याऽऽत्मज्ञानिनां निद्रा,-खनादौ निजबोधतः॥३॥ गृहे त्यागिदशायां च, सम्यग्दृष्टिप्रभावतः । स्वाऽऽत्मा साक्षिस्वरूपेण, वर्तते मोहनाशकृत्॥१४॥ एकक्षणमपि प्राप्ता, येन शुद्धाऽऽत्मभावना । पारं भवोदधेर्याति, सोऽवश्यं ब्रह्मरागवान् ॥६५॥ गृही त्यागी शिवं याति, यादृशस्तादृशो जनः । अध्यात्मज्ञानरागेण, ब्रह्मध्यानपरायणः ॥६६ ॥ तीव्रकर्मविपाकानां,-भोक्तारस्त्यागिनो जनाः। शुद्धोपयोगयुक्तास्ते, कुर्वन्ति निर्जरां भृशम् ॥ ७ ॥ प्रारब्धकर्मभोगस्तु, भुज्यते गृहिसाधुभिः । विना भोगं न मुच्यन्ते, इन्द्राद्या अपिजानत ॥९८॥ आत्मतत्त्वादिसज्ज्ञानं, कुर्वन्ति ज्ञानिनो जनाः। कर्मरूपं च जानन्तो, भवन्ति ब्रह्मसम्मुखाः ॥६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com