________________
यस्य दृष्ट्यां न मित्रत्वं, शत्रुत्वं न च भासते । निर्मोही वीतरागः स, जीवन्मुक्तो जिनो भवेत्॥८॥
आत्मज्ञानप्रभावेन, मोहदृष्टि विनश्यति । सम्यग्दृष्टिर्भवेव्यक्ता, सर्वकर्मविनाशिका ॥ ८१ ॥ सम्यगाऽऽत्मनि विज्ञाते, ज्ञातं विश्वं न संशयः । आत्मनि नैव विज्ञाते, न विज्ञातं जगत्रयम् ॥ ८२॥ आत्मरूपं परिज्ञाय, त्यक्त्वा च शास्त्रवासनाम् । आत्मन्येव स्थितिं कृत्वा, स्वाऽऽत्मा चिन्त्यो मुहुर्मुहुः८३ अनादिकालतः सर्वे, धर्मा आत्मनि संस्थिताः । कर्मविनाशतो व्यक्ता, भवन्ति ज्ञानयोगिनाम् ॥८४॥ मूर्तकर्मादिसंयोगी, देहस्थो मूर्तरूपवान् । शरीरपरिणामोऽपि, ज्ञानेन व्यापको विभुः ॥ ८५ ॥ स्थातव्यं निर्जने स्थाने, प्रथमाभ्याससाधकैः । सर्वोपाधिविनिर्मुक्तैः, शुद्धोपयोगहेतवे ॥८६ ॥ सात्त्विकाहारपानेन, योग्यनिद्राविहारतः।। चित्तशुद्धिः प्रकर्तव्या, शुद्धोपयोगहेतवे ॥ ८७ ॥ शुद्धाऽऽत्मभावना भाव्या, निन्द्या दुर्गुणराशयः । आत्मायत्तं मनः कार्य, मिन्द्रियाणि तनुश्च वै ॥८॥ प्रेम्णा वैरं परित्याज्यं, हेयः क्रोधः समत्वतः। आत्मवत्सर्वजीवानां,-शुभं कार्य विवेकतः ॥ ८६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com