SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (८) एकमेव चिदानन्द,-माऽऽत्मानं निर्विकल्पकम् । निर्विकल्पोपयोगेन, ध्यायन्ते पूर्णरागतः ॥७० ॥ संकल्पैश्च विकल्पैश्च, भिन्ना ब्रह्मणि संस्थिताः। भवन्ति प्रभवो जित्वा, रागद्वेषात्मकं मनः ॥७१ ॥ जिते चित्ते जगत्सर्वं, जितं निजाऽऽत्मना ध्रुवम् । न जितं स्वं मनस्तर्हि, निष्फला धर्मसाधना ॥७२॥ यैर्जितं न मनस्ते तु, इन्द्राद्या अपि पामराः। जितं स्वं मनस्ते तु, भिक्षवोऽपि महेश्वराः ॥ ७३ ॥ ग्राह्यं त्याज्यं च चित्तेषु, यस्य किञ्चिन्न भासते । साक्षी कायादिकार्येषु, ब्रह्मज्ञानी स उच्यते ॥ ७४ ॥ जडस्य सर्वभावेषु, स्वाऽऽत्मनः पर्यवेषु च। अहंत्वमितिमोहेन, स्वाऽऽत्मशुद्धि न जायते ॥ ७५ ॥ अहं ज्ञानी ह्यहं ध्यानी,-त्यपि मोहस्य चेष्टितम्। अहंत्वभावमुक्तो यः, सातिभावेन जीवति ॥७६ ॥ मनःसंकल्पयोगेन, संसारस्त्वेव कथ्यते । यत्र मनोजयस्तत्र, मोहवृत्तिर्न जायते ॥७७॥ आत्मशुद्धोपयोगेन, साक्षीभूतो मनस्यपि । अक्रियः सर्वकर्ताऽपि, मुक्तः स बन्धनेष्वपि ॥ ७८ ॥ सद्गुणेषु च दोषेषु, स्वान्येषु साक्षिभावतः । वर्तते यो महाज्ञानी, समयोगी भवेत्सहि ॥ ७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy