SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ( ७ ) मूढनास्तिकलोकानां, - संगस्त्याज्यो विवेकतः । आत्मसाधकभव्येन, प्रभुः शोध्यो हृदि स्वतः ॥ ६० ॥ योगभेदसमूहोऽपि, चिदानन्दप्रकाशने । ॥ ६१ ॥ हेतुरेवं परिज्ञाय, मा मुहः साधनेष्वपि योगसाधनभेदेषु, धर्मभेदेषु च क्वचित् । ज्ञानिनो नैव मुह्यन्ति, सम्यमूविज्ञानशक्तितः ॥६२॥ सर्वदर्शनभेदेषु, विरुद्धेषु सुपण्डिताः ! रागद्वेषौ न कुर्वन्ति, शुद्धब्रह्मोपयोगिनः ॥ ६३ ॥ क्रियादिमतभेदेषु सर्वधर्मेषु पण्डिताः । मुह्यन्ति नैव सर्वत्र, सम्यज्ज्ञानोपयोगिनः ॥ ६४॥ परस्परविरुद्धेषु, - धर्मेषु ब्रह्मवेदिनः । यत्सत्यं तत्प्रगृह्णन्ति, सापेक्षनयदृष्टितः सर्वदर्शनधर्मेषु, सत्यस्य तारतम्यता । विद्यतेऽतः प्रजीवन्ति, जीवत्स्वरूपशक्तितः ॥ ६६ ॥ सर्वनयस्यसापेक्ष - ब्रह्मज्ञाने कृते सति ॥ धर्मदर्शनभेदेषु, सत्यज्ञानं प्रकाशते परस्परविरुद्धेषु, - धर्मेषु दर्शनेषु च । सत्यं सापेक्षिकं यत्तद्, गृह्णन्ति नयकोविदाः ॥ ६८ ॥ 11 84 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat ॥ ६७ ॥ सर्व दर्शनधर्माणां - सापेक्ष नयदृष्टितः । जैनधर्मे समावेशो, विश्वधर्मस्ततोऽस्ति सः ॥ ६६ ॥ www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy