________________
प्रात्मशुद्धोपयोगस्य,-प्रवाहेण शुभाशुभम् । बाह्येषु भासते नैव, स्वाऽऽनुभवः प्रकाशते ॥५०॥ आत्मानमन्तरा कोऽपि, नाऽन्यः प्रियतमो भुवि । यत्सत्त्वे सर्वसत्त्वं वै, स्वाऽऽत्मध्यानं कुरुष्व भोः ॥५१॥ आत्मोपयोगतः स्वाऽऽत्मा, ध्येयः प्रतिक्षणं बुधैः । आत्मसमाधिना स्थेय-माऽऽत्मनि शर्महेतवे ॥५२॥ ज्ञानानन्दप्रकाशार्थ, ध्यानाद्याः सन्ति हेतवः । सर्वसाधनतः साध्या, ज्ञानानन्दप्रकाशता ॥५३॥ अात्मानमन्तराऽन्यत्र, सुखं बुद्धिं न धारय । आत्मसुखस्य भावेन, संजीव त्वं प्रतिक्षणम् ॥ ५४॥ निक्षेपैश्च नयैर्भङ्गः, किं कथायाः विकल्पकैः । तै विना निर्विकल्पाऽऽत्मा, भासते स्वोपयोगतः॥५५॥ शास्त्रसंज्ञां तथा लोक,-संज्ञां की.दिवासनाम् । नामरूपादिमोहं च, त्यक्त्वाऽऽत्मनि रतो भव ॥ ५६ ॥ सर्वकामविनिर्मुक्तो, भविष्यसि यदा तदा। पूर्णानन्दमयः स्वाऽऽत्मा, स्वस्मिन्खेनानुभूयते ॥५७॥ सर्वेन्द्रियस्य भोगेषु, सुखं दुःखं न भासते। समत्त्वं भासते व्यक्तं, सुखं व्यक्तं तदाऽऽत्मनि ॥५८॥ व्यक्ताऽऽत्मा जायते नैव, राज्यसत्ताधनादिभिः । आत्मानन्दप्रकाशार्थ, नास्ति जडस्य हेतुता ॥ ५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com