________________
श्रात्मन्येव सुखं सत्यं, बहिर्नास्ति सुखं क्वचित् । आत्मन्येव कुरु स्थैर्य, बाह्यभावेषु मा भ्रम ॥ १० ॥ यत्र नास्ति सुखं तत्र, सुखभ्रान्ति निवारय । सुखरूपो निजाऽऽत्माऽस्ति, तत्रैव स्थिरतां कुरु ॥४१॥ चकवादिभोगेन, सुखं सत्यं न लभ्यते । इन्द्रादिकपदेच्छातः, सुखं किञ्चिन्न लभ्यते ॥ ४२ ॥ इन्द्रादिकपदेच्छां त्वं, स्वप्नेऽपि मा कुरुष्व भोः । मां मुहः कीर्तिसत्तासु, सुखाशा तत्र दुःखभाक् ॥४३॥ अध्यात्मज्ञानिनो भिक्षो, यत्सुखं जायतें बने । तत्सुखांशोऽपि भूपादे, र्नाऽस्ति भोगविहारिणः॥४४॥ आत्मज्ञानिसुखस्याग्रे, स्पर्शेन्द्रियादिभोगतः। यत्सुखं तत्तु दुःखादि,-कारकाद्दुःखमेव च ॥४५॥ सर्वग्रन्थिविनिर्मुक्तो, भिक्षुकोऽस्ति स्वयं सुखी । तदने चक्रवर्त्याद्या, रङ्कायन्ते हि दुःखिनः ।। ४६ ॥ भोगेच्छा यत्र तत्राऽस्ति, सर्वदुःखपरम्परा । यत्र कामो न तत्राऽस्ति, व्यक्तानन्दमयः प्रभुः॥४७॥ आनन्दार्थ भवेदिच्छा, देहिनां यत्र तत्र वै । इच्छाया दुःखदावाग्नि-यंत्र तत्र भवेत्सदा ॥४८॥ सर्वेच्छारोधनाच्छान्ति, हदि सुखं प्रकाशते । शुभाशुभमनोवृत्ते,-रोधादाऽऽत्मा भवेत्प्रभुः ॥ ४६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com