SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( ११ ) कर्मरूपं न जानन्तो, मुह्यन्ति घोर संकटे । आत्मादितत्त्ववेत्तारो, मुह्यन्ति नैव संकटे ॥ १०० ॥ श्रात्मज्ञानिमनुष्याणां, - शुद्धोपयोगलक्ष्यतः । स्वाधिकारेण कार्याणां - प्रवृत्तिर्जायते खलु ॥१०१॥ प्रवृत्तौ वा निवृत्तौ वा, स्वतन्त्रा ज्ञानिनः सदा । यद्योग्यं तत्प्रकुर्वन्ति, सर्वकार्य विवेकिनः ॥ १०२ ॥ शुद्धाऽऽत्मराज्यलाभार्थ, - माऽऽत्मशुद्धोपयोगिनः । भवन्ति बाह्यराज्येषु, निर्लेपाः कर्मयोगिनः ॥ १०३॥ सर्वसंगेषु निःसंगाः, क्रियासु चाक्रियाः स्वयम् । योगिनो नैव योगेषु, भोगेषु न च भोगिनः ॥ १०४॥ मृतास्ते मोहभावेन, जीवन्तो ज्ञानभावतः । सुप्ता विकल्पसंकल्प, - त्यागेनाध्याऽऽत्मवेदिनः ॥ १०५॥ मोहस्वप्नो न यस्यास्ति, ज्ञानदृष्ट्यां भवोत्थितः । स ज्ञानी दिवसे रात्रौ, जागर्ति निद्रितोऽपि सन् ॥ १०६ ॥ रागद्वेषस्वरूपं तद्, -द्वैतं यस्माद्विनिर्गतम् । स विश्वेशो महादेवो, विभुरस्ति सुखालयः ॥ १०७॥ आत्मैव परमेशोऽस्ति, संग्रहनयसत्तया । एक आत्मा स संध्येयः, शुद्धात्मव्यक्तिहेतवे ॥१०८॥ संग्रहनयसत्ताया, - अपेक्षातो विवेकिनः । श्रात्मसत्तां हृदि ध्यात्वा भवन्ति परमेश्वराः ॥ १०६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy