________________
वक्ति पश्यति यो योगी सोऽहमात्मा स कथ्यते । पराऽऽत्मजीवयो आंदो भवखेदश्च नश्यति ॥५०४ ॥ धन्यं मन्ये स्वजन्माऽहं किश्चिद्रूपमभास्यत। अकलगति रात्मस्त्वं स्वस्य सेवां स्वयं कुरु ॥५०५ ॥ दानिनिजगुणं देहि ज्ञानिन्देहि गुणज्ञताम् । तव सौख्य मबाधञ्च सुखं साधय साधनात् ॥५०६ ।। धर्मद्वयं जिनप्रोक्तं हेतुः शाश्वतशर्मणाम् । धर्म ज्ञात्वा यथाशक्ति स्वीकारं कुरु तस्य च ॥ ५०७ ।। त्वं धर्ताऽस्यात्मधर्माणां निश्चयात्समतोदधिः। तृष्णायाः किंकरो नाऽस्मि नाऽस्मि पुद्गलवास्यहम्॥५०८॥ न निन्देद्धर्मिणं कश्चि-दतिनिन्दाफलं कटु । तपोजपादिमान्श्राद्धो भ्रमति निन्दनाद्भवे ॥ ५०६ ॥ अन्त मर्म न जानाति धर्म:कस्तिलकादितः। शुद्धरूपं धराऽवश्यं धन्यं जन्मास्ति तस्य तु । ॥ ५१० ॥ श्रावकाख्यः कुले जातः कथं मुक्ति र्भवेत्ततः। स्यात्फलं यदि नाम्नैव धनेशाख्यो न याचताम् ॥११॥ साधूनां कुरुते शिक्षा न स्वयं श्रावकव्रती गुरुशत्रुः स चाण्डालः शृगालजन्म तद्वरम् ॥५१२ ॥ विषमः कलिकालोऽयं कश्चिद्धि श्रावको गुणी निन्दको मुनिविद्रोही तस्य बोधः कथं भवेत् ॥ ५१३ ॥ पण्डितः श्रावकः कश्चिन्न भवेद्गुरुतोऽधिकः । मेरुसर्षपवद्भेदो ज्योतिरन्तरथोतमः ॥ ५१४ ॥ उत्तराध्ययनं साक्षि, गुणार्थ कुरु तच्छ्रमम् दृष्टिरागेऽस्ति को धर्मः परं द्वेषेण कर्म हि ॥५१५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com