________________
भावं विना क्रिया व्यर्था ज्ञात्वा कुरु शुचो जहि । इतस्ततो मनश्चेत्स्यात्स कथं धर्मकर्मकृत् ॥४६२॥ चित्तं तिष्ठति नैकत्र किं क्रियायाः प्रयोजनम् । न निश्चिनुत चेत्येवं धर्मोद्यमाच्छिवं भवेत् ॥४६३॥ धर्मः स्वगुणरचैव चाधर्मः स्वगुणापहः । धर्मे स्वाऽऽत्मप्रवृत्ति श्चेनिजर्द्धिःस्वेन लभ्यते ॥४६४ ॥ बाह्यक्रियाकदात्मा चेत्कर्म कृत्वा भवे भ्रमेत् । पापक्रियैव संसारो धर्मक्रियैव मोक्षदा ॥४६५ ॥ आरौद्रक्रियात्यागो यस्मात्ताभ्यां सुखं नहि । सा तद्धेतुक्रिया मुक्ति-प्रदा चास्त्यमृतक्रिया ॥४९६ ॥ आत्मज्ञानेन देहो न चेतनोऽस्ति गुणालयः अहंदादिपदं यच्च तद्धर्ताऽप्येष चेतनः ॥४६७ ॥ यद्यदिच्छति जीवोऽयं तत्तत्फलमवेति सः ।। भवानन्दी भवभ्रामी त्वात्मानन्दी लभेत शम् ॥ ४६८ ॥ अव्ययो निर्मलःस्वात्मा मुक्तिस्त्रीपतिरुत्तमः । स्वयं कुरु विकाशं त्वं स्वविश्वासं समाचर ॥४६६ ॥ त्वां विनाऽत्राऽस्ति कासार स्त्वां विना निर्मलोऽस्ति कः। नास्ति त्वत्समः कोऽपि स्वध्यानं धर निर्मलम् ॥५०॥ भवद्गुणलवादानैःक्लेशा नश्यन्ति भूरिशः। योगिनस्त्वां तु पश्यन्ति मोहो नायाति तद्धदि ॥ ५०१ ॥ स्वं स्वयं वीक्षते योगी पापं तस्य कुतो भवेत् । योगी ध्यानगुहावासी नैति कर्म तदन्तिके ॥५०२ ॥ अन्योऽस्ति योगिनो योगो लभन्ते मोहिनो न तम् । योगी जागर्ति निद्रान्ति सर्वे का योगिनां कथा ॥ ५०३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com