SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ धन्यं जन्म तदा मे स्याद्यदा शिवपुरं लभे । दावाग्निरेष संसार स्तत्पारं च कदा लभे ॥४८० ॥ यदैवं चिन्तनं चित्ते दोषा यास्यन्ति तत्पृथक् ।। आत्मध्याने क्षणं यत्स्या-च्छेष्ठं तद्धि भवक्षणम् ॥ ४८१॥ व्याप्योऽस्ति प्रतिदेहं स वाच्यो यन्महिमा नहि । यश्च नामी तथाऽनामी कदा तदर्शनं लभे ॥४८२ ॥ यत्र शब्दो न गन्धोऽस्ति नास्तिको यं न पश्यति । जहाँ लेभेतिदेहान्स किन्तु नित्यः स वर्तते ॥४८३ ॥ नादि र्नान्तश्च यस्याऽस्ति तस्मात्सोऽस्त्यजरोऽमरः। योग्यपि कथ्यते भोगी चेतनं तं नमाम्यहम् ॥४८४ ॥ यस्य ध्यानेन सौख्यं स्या-दुःखान्तो मृत्युजन्मनोः । यस्याऽपारा गुणा सन्ति जाति र्लिंगं यतो नहि ॥४८५ ।। एकरूपत्रिकालेषु स्वपर्यायगुणाश्रयः। क्रमवर्ती तु पर्यायः सहभावी गुणः पुनः ॥४८६ ॥ पड्द्रव्ये वर्तनन्त्वेवं चिन्तनाल्लभ्यते शिवम् । शुक्लध्यानं च तेन स्याच्छास्त्रे निश्चयभाषितम् ॥४८७ ॥ षड्द्रव्ये निखिलं माति सूत्रे वक्ति जिनेश्वरः । चेत्सौदम्येषा भवेज्ज्ञानं मुक्तिःस्यात्स्वल्पजन्मना ॥४८॥ निश्चयदृष्टिभाचित्ते व्यवहाराद्गुणीभवेत् । भवपारं स नो याति एकान्ते व्यवहारवान् ॥४८९॥ नास्ति कश्चिन्मृषा तत्र सर्वज्ञोक्तनयद्वये । निश्चयरूपकार्यस्य व्यवहारोऽस्ति कारणम् ॥४६० ॥ तरन्ति भवपाथोधिं षडावश्यकारिणः । यस्व कर्मास्ति दम्भाय भ्राम्यति स भवोदधौ ॥४६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy