________________
कुपथानि नयाभासाः सापेक्षाज्ज्ञानिनामिमे । एकैकस्मानयाजातं दर्शनं नाऽन्यपेक्षितम् ॥४६८॥ अब्धौ नद्यो यथा मान्ति मतानि जैनदर्शने । अन्यत्र जिनवाणी तु प्रायत्वेन प्रवर्तते ॥४६६ ॥ कर्माष्टक विनाशेन परमात्मा प्रकाशते ।। नश्यन्ति भवचक्राणि क्षायिकधर्म उद्भवेत् ॥४७०॥ प्रवर्तते सुखानन्त्यं सिद्धानां समयं प्रति । पूर्वप्रयोगतः सिद्धा उर्ध्व यान्ति शिवालयम् ॥४७१ ॥ याति नो मधस्तिर्यक् यस्मात्सोऽस्त्यक्रियः स्थिरः । नौमि तादृग् विभुं नित्यं, कदा प्राप्स्यामि धाम तद्॥४७२॥ साधनन्तस्थितिप्राप्तं तं सिद्धं नौमि भावतः। केवलज्ञानतो वेत्ति सर्व यश्च तमाश्रये ॥४७३ ॥ खेदो हि व्यवहारेऽस्ति भेदेनात्मपरात्मनोः। भेदभावो न यत्रास्ति शुभं तत्रास्ति निश्चयात् ॥ ४७४ ॥ आत्मरूपं यदा पश्येदुत्तमदृष्टिरुद्भवेत् ।। शृणु पठाऽऽखिलान्ग्रन्था-नात्मदृष्टि हि मुक्तिदः ॥४७॥ दध्यात्कोऽप्युत्तमां दृष्टिं सिद्धो याति शिवालये । ज्ञानादिगुणसाफन्यं समभावेन पश्यताम् ॥४७५ ॥ शत्रौ मित्रे च साम्येन शुद्धधर्मः प्रकाशते। देहे सति विदेहोऽसौ किं भयं चेद्दशेशी ॥४७७ ॥ निर्ग्रन्थिने नमस्तसै यस्य दृष्टिः शिवाध्वनि । लभे सद्गुरुमेवं चेत्तदा निजगुणं लभे ॥४७८ ॥ शैत्यं तापाश्रयानश्येत् पापान्तः साधुसंगतः । तन्मन्यस्व गुरोराज्ञां लभध्वं शाश्वतं पदम् ॥४७६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com