________________
घर धर्मगुरो राज्ञा तरीतुं तीर्थ एव सः । भवपारं ततो यातु सारं तच्च सुखाकरम् ॥ ५१६॥ साधुव्रताभिलाषी यो यश्व सद्गुरुकिंकरः। सद्गुणानां च यो धाम स सत्यश्रावको मतः ॥ ५१७ ॥ पंचमहाव्रताचारधर्मध्यानेषु वर्तते । भवभीतो जिनाज्ञासु वर्तते यो दिवानिशम् ॥५१८॥ बाह्योपाधिविषं त्यक्त्वा समाधि प्राप्य जन्मजाम् ॥ स्वरूपं बोधयामास वन्दे तं गुरुमीश्वरम् ॥ ५१६ ॥ श्रीपार्श्वमणियोगेन लोहो याति सुवर्णताम् ॥ अबोधो यस्य बोधेन बुद्धस्तं श्रीगुरुं भजे ॥५२०॥ एवं गुरुं हि सेवस्व तीर्थ जगत्सुखप्रदम् ॥ यस्य वाणी च गम्भीरा ध्यानी धीरोऽथ योगवान् ॥५२१॥ धर्मगुरुर्ममाधारः शुद्धो हि तदुपग्रहः । लभ्यते गुरुसेवा चेद्भवपापं लयं व्रजेत् ॥ ५२२ ॥ उपदिशेद्गुरु यच्च तल्लवं प्राप्य यत्नतः ॥ वर्णिता गुरुभक्ति हि गुरुभक्ति हि मे शुभा ॥ ५२३॥ प्रादुर्भवन्तु सत्सन्तो वहन्तु ज्ञाननिर्झराः ॥ श्रीशंखेश्वरपार्श्वस्तु कुरुता मङ्गलं सदा ॥५२४ ॥ पद्मावतीसहायेन पूर्ण-ग्रन्थः कुतो मया ॥ पंचशताधिकैः श्लोकैः श्री परमात्मदर्शनम् ॥५२५ ॥ लोदरायामिमं ग्रन्थं प्रारेमे स्फुर्तितो मतेः ॥ म्हेसाणायां समाप्तोऽभू-दात्मा शुद्धोऽभवचतः ॥ ५२६ ॥ श्रीधर्मचन्द्रःसुरतस्य वासी तस्यात्मजो जीवनलालनामा ।। तस्मै च संघार्थमहं चकार तरिष्यति ज्ञातजनो
भवाब्धिम् ॥ ५२७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com