________________
योगेन श्रीश्वरेच्छाया बन्धो भवति कर्मणाम् । सुखं दुःखं ततो याति जीवो निबंध उच्यते ॥४०३ ॥ अनादिपरिणाम्यस्ति चेतनपुद्गलद्वयम् । अशुद्धपरिणामेन कर्मकर्ता स जायते ॥४०४॥ जीवस्य प्रेरणा चेन्न कर्मग्राही ततोऽस्ति कः। प्रेरणा न जडे काचि द्भिन्नं धर्मद्वयं ततः ॥४०५ ॥ चेतनप्रेरणायां हि कर्म सर्व प्रगृह्यते । प्रेरणा परभावोऽस्ति सदृशो मत्तचेष्टया ॥४०६ ॥ विचार्य हृदये पश्य कर्म न कर्मकारकम् । घटादिः प्रेरयेत्किच पवित्रं न्यायमीक्षताम् ॥४०७ ॥ चेतनः कर्मकर्तेति व्यवहारेण वर्तते । शुद्धस्वभावधर्मस्य कर्ताऽस्ति चेतनः स्वयम् ॥४०८ ।। मूलं धर्म त्यजेनैव स्वभाव एष आत्मनः । अशुद्धपरिणामेन कर्मका स वर्तते
॥४०६ ॥ परिणतं पयोनीरं हंसो हि कुरुते पृथक् । रममाणो गुणे स्वीये हंसः कर्मक्षयंकरः ॥४१० ॥ विभाविकोऽस्ति यो धर्म चेतनस्य न विद्धि तम् । स्वाभाविक: स्वधर्मोऽस्ति विद्धि ज्ञानस्य मम तद् ।। ४११॥ स्वतः शुद्धस्वधर्मेण ह्यशुद्धपरिणामतः । कृतानां कर्मणां नाशो भगवद्भि निरूपितः ॥४१२॥ सदा निःसंग प्रात्माऽयं ज्ञेयो निश्चयसत्तया । कर्मकर्तृत्वभोक्तृत्वे वर्तेते व्यवहारतः ॥ ४१३॥ जन्मवार्धक्यमृत्यूनां,-दुःखस्य कर्म कारणम् । कर्मोदयफलंतत्स्यात् साताऽसाताख्यकर्मकम् ॥ ४१४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com