________________
प्रालयस्य च यत्स्थैर्य तदाऽऽत्मानं विचारय । तदा बन्धोऽथ मोक्षःस्या ज्ज्ञानमस्त्यात्मनो गुणः ॥३६॥ पूर्वजन्मस्मृतेरेव पुनर्जन्म च साध्यते । भुनक्ति पुण्यपापे च प्रसिद्धो नित्यचेतनः ॥ ३६२ ॥ चेतनो यदि नित्यःस्यात्कर्म किञ्चिन्न तल्लगेत् । तस्मादात्माऽस्त्यनित्योऽयं नश्यति च क्षणे क्षणे ॥३६३॥ अत्र क्षणे य आत्माऽस्ति तच्क्षणे स विनश्यति । पुण्यपापसुखादीनां,-घटना च कथं भवेत् ॥३६४ ॥ अन्य कुर्यात्तथाऽन्यस्य,-बन्धः स्यात्पुण्यपापयोः । अन्यस्य यदि मोक्षः स्या-देतत्सर्व तदा मृषा ॥ ३९५ ॥. कः कर्ता कश्च भोक्ता स्यान्मृषा न्यायश्च सर्वथा । नित्यात्मज्ञानतः सर्वः कर्ता भोक्ता च सिध्यति ॥ ३६६ ।। अभ्रसंघापसारेण स्वयं सूर्यः प्रकाशते । नित्यात्मज्ञानतः सर्व,-दोषनाशश्च जायते ॥३६७॥ संयोगं न विधायेव यस्योत्पत्तिः प्रजायते । तस्य नाशो भवेनैव ततो नित्यः स वर्तते ॥३१८॥ अहंकृतेश्च कोपस्य सिंहे सर्प च भासते । तारतम्यं ततो विद्धि तत्राऽस्ति पूर्ववासना ॥३६४ ॥ पूर्वस्या वासनायाश्च योगेनात्माऽस्ति तु ध्रुवः बौद्धानां क्षणिको वादः सिद्ध्यति न कदाचन ॥ ४०० ॥
शिष्य उवाच. कर्मका न जीवोऽयं कर्मैव कर्मकारकम् ।
आत्मा स्वकर्मकर्ताऽस्ति जीवधर्मस्य मर्म तद् ॥४०१॥ निःसंगोऽस्ति सदाऽऽत्माऽयं जलपंकजसनिमः । कर्तृत्वं चाऽपि भोक्तृत्वं प्रकृतावेव भासते ॥४०२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com