SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ बौद्ध उवाच. चेतनं तर्हि मन्यस्व ज्ञानक्षणिकसन्ततिम् । प्रकृतिरूपविज्ञानो,-पादानमालयो भवेत् ॥३८०॥ ज्ञानमस्त्येकरूपं न क्षणे स परिवर्तते । ज्ञानसन्ततिरात्माऽस्ति मन्यस्व युक्तिपूर्वकम् ॥३८१॥ स्वीकारे नैव दोषोऽस्ति ज्ञानक्षणिकसन्ततः ॥ क्षणिकोत्तरविज्ञानं पूर्वज्ञानस्य पोषणम् ॥ ३८२ ॥ गुरुरुवाच. न चेतनपदै ाच्या ज्ञानक्षणिकसन्ततिः।। क्षणिकसन्तते ज्ञाने पुण्यं पापं लभेत कः ॥३८३ ॥ विनश्यति कदाचिन्न उपादानाठ्यकारणम् । चेदालयस्यनाशःस्याद्वृत्तिः कुत्र प्रकाशते ॥ ३८४ ॥ तदा चेतनरूपः स्यानित्यः स्यादालयो यदि । स्वीकारे नैवदोषोऽस्ति ज्ञात्वा मौनी भव स्वयम् ॥३८५॥ आलये स्वप्रवृत्तौ चेद्भेदं कंचिच्च मन्यते । उपादानाख्यहेतो स्त-द्विच्छेदः स्यादहो ध्रुवम् ॥ ३८६ ।। समुदायो न सूत्राणां जायते घटवस्तुना । कार्य च कारणं भिन्नं तदा कार्य कथं भवेत् ॥३८७॥ कार्यकारणभावः स्या-चैत्रमैत्रभिदेव हि । स्मृतिभंगो भवेत्तत्र किं स्यु स्तत्र सुयुक्तयः ॥३८८ ।। चणिकसन्तते झाने तादात्म्यं हेतुकार्ययोः। चणवादस्य नाशःस्या-दिति ज्ञाने सुनिश्चयः ॥ ३८६ ॥ यदि स्यादुत्तरज्ञान,-दशायां पूर्ववेदनम् । स्थिरबुद्धिस्ततो जाता बुद्धिनाशः क वीचितः ॥३६०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy