SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सद्गुरुरुवाच तनुभेदः प्रसिद्धोऽयं बाल्यं च यौवनं जरा । बालदेहेन भुक्तं यत्तेनैव तत्स्मृतिः कृता ॥३७० ॥ तस्य स्मृतिः कदाचिन्न जायते यौवने तदा । बालदेहेन भुक्तं य-तरुणस्तत्कथं स्मरेत् ॥३७१ ॥ जायते तन्मृते देहे बुद्धिस्फुर्तिः कथं नहि । तस्माद्बुद्धयाश्रयो वाच्य-श्चेतनः स्मृतिकारकः ॥ ४७२ ।। शिष्य उवाच । बुद्ध्याश्रयो न देहश्चे-च्छासोच्छासस्तदा भवेत् । श्वासो यत्र न तत्राऽस्ति सुखंदुःखं न वीक्ष्यते ॥ ३७३ ।। श्वासोच्छ्वासेऽपि भेदोऽस्ति नैकरूपः स वर्तते ।। बुद्धयाश्रयो यदुक्तोऽयं सोऽपि कूपसमो जडः ॥३.४ ॥ श्वासोच्छ्वासेन चैकेन स्वनुभूतं हि शिष्य ! यद् । अन्यश्वासो न तत्स्मर्ता नाऽयंबुद्ध्याश्रयस्तदा ॥३७५ ।। बुद्ध्याश्रयो यदि श्वास स्त्वचा स्पृश्यः स वर्तते । त्वचा श्वासं तु गृह्णाति कथं बुद्धि ने गृह्यते ॥३७६ ॥ सोऽयं प्रतीतियोगेन यश्च वुद्धयाश्रयो भवेत् । आत्मतत्वं हि तज्ज्ञेयं शंका तत्रास्ति कापि न ॥३७७॥ शिष्य उवाच. भिन्नदेहादित श्चेद्धि मन्यते चेतनं भवान् । तदर्शय पृथक् कृत्य खङ्गकोशौ यथा पृथक् ॥३७८॥ गुरु रुवाच. निरीक्ष्यते कदाचिन्न वाय रूप्यपि नेत्रतः । प्ररूपी तर्हि जीवोऽयं कथं दृश्यः स नेत्रतः ॥ ३७६ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy