SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तथा न चेतनद्रव्यं यथा ज्ञेयः घटः पटः । नास्तिता चेतनस्यात इति मिथ्याऽस्ति ते वचः ॥ ३४८॥ आत्मा चेन्नास्ति तद्वयर्थाः स्यु स्तपोजपसंयमाः। पुण्यपापे मृषा मत्वा मुह्यन्ति मूढमानवाः ॥३४९॥ जीवस्येमां महाशंकां च्छिन्धि हे देव सद्गुरो !! ॥ मतिहीनोऽस्मि जीवोऽहं कुमतिं ध्वंशयाशु मे ॥३५० ।। गुरुरुवाच त्यक्त्वोच्छखलवृत्तिं त्वं युक्तिदीपं गृहाण च ।। जानीहि चेतनाऽस्तित्वं मुक्तेव शुक्तिकान्तरे ॥३५१ ॥ भिन्नोऽस्ति पंचभूतेभ्यः शुद्धोऽरूपश्च निर्मलः। देहव्याप्योऽस्ति जीवोऽयं व्यापि दुग्धं यथा जले ॥३५२ ॥ अहं सुखी तथा दुःखी नैषाधीर्वपुपो मता । मृतदेहे कदाचिन्न किश्चिच्चेष्टाऽपि दृश्यते ॥३५३ ॥ पंचभूतगुणा दृष्टाः काठीन्यशीततादयः । चैतन्यादि ने तत्रास्ति सूक्ष्मत्वेनाऽवलोक्यते ॥ ३५४ ॥ अरूपी चेतनोऽयं तु चनुाह्यः कदापि न । स्पर्शन पुद्गलस्कन्धा दृश्यन्ते तु सदा धृताः ॥६५५ ॥ श्वासोच्छ्वासस्तु भो शिष्य ! सदा स्पर्शन गृह्यते । गच्छंश्च बहिरागच्छन् स कथं चेतनो भवेत् ॥३५६ ॥ पुद्गलो न कदाचित्स्याज्जीवोऽयं ज्ञातृताश्रयः । न चेद् घटादिके द्रव्ये ज्ञातृशक्तिश्च गृह्यते ॥ ३५७ ।। संयोगः पंचभूतानां मद्यांगे मदशक्तिवत् । उत्पादयति चैतन्यं युक्तिः सा निष्फलैव हि ॥३५८ ।। भिन्न भिन्ने च मद्यांगे मदशक्तिस्तु भासते । भूते भृते च नो तद्वज् ज्ञानवासोऽनुभूयते ॥४५६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy