________________
गुरुगमावबोधेन सप्तभंगी विचार्य च । आत्मस्वभावमध्यस्थो भवदुःखं निवारय ॥३३६ ॥ तत्त्वबोधोऽतिगम्भीरो जानन्ति विरला जनाः । भवं तरति मेधावी कृत्वा कर्मक्षयं द्रुतम् ॥३३७॥ सिद्धानां गुणपर्याये सप्तभंगी प्रवर्तते । जायते शुद्धसम्यक्त्व-मनेकान्तावबोधतः ॥ ३३८ ॥ षड्द्रव्यनवतत्त्वानां सत्यज्ञानं यदा भवेत् । ज्ञानी जन स्तदा शीघ्रं लभते श्रीशिवं पदम् ॥ ३३६ ॥ सम्यक्त्वमोहिनीत्यादे रुपशमादिकं यदा। . भवेत्तदा हि सम्यक्त्वं जायते भव्यदेहिनाम् ॥ ३४० ॥ स्वगुणस्थैर्यचारित्रा-गुणोद्योतश्च जायते । परमात्मा स्वयं शुद्धः शुद्धज्योतिः प्रकाशते ॥३४१ ॥ गुणस्थानस्य संस्पर्शा त्स्वयं गुणः प्रकाशते । परिपूर्णो निजव्यक्त्या लभते चाऽचलं पदम् • ॥ ३४२ ॥ षट्स्थानकावबोधेन सम्यक्त्वं च प्रकाशते । षट्स्थानकं सदा धेहि जायते च गुणः स्वयम् ॥३४३ !!
आत्मानः सन्त्यनन्ता हि तेषां भेदाविमौ मतो। संसारिणोऽत्र सिद्धाश्च इति सम्यग् विचारय ॥३४४॥
आत्मा नित्यश्व कोऽथ हता स्वकर्मणां मतः। मोक्षोपाय श्च मोक्ष श्च इति षट् स्थानकं मतुम् ॥ ३४५ ॥
शिष्य उवाच । स दृष्ट्या नैव दृश्योऽस्ति स्पर्शग्राह्यो न वर्तते । आत्मद्रव्यास्तिता नैव जायते चानुभूतितः ॥३४६ ॥ मन्यतां देहमात्मानं श्वासोच्छ्वासं च मन्यताम् । मूर्तिश्च पंचतत्वानां नान्याभासो विलेाक्येत ॥३४७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com