________________
घटेते द्वौ न चैकत्र एवं पृच्छति पृच्छकः । नैको हि घटते धाम तेजोन्धयो विरोधिनोः ॥३२४॥ नैकस्मिन् ब्रह्मसूत्रेण नैकत्र द्वौ च तिष्ठतः। अस्तिता नास्तिता क्वापि नैकत्र तद्रोऽस्ति किम् ?॥३२॥ घटतेऽपेक्षया सर्व तथा सर्व च वेद्यते । पितृत्वमथ पुत्रत्व-मेकत्र द्वेऽपि तिष्ठतः ॥३२६ ॥ परत्र नास्तिरूपं तदस्तित्वं चेतनस्य यद् । नान्यत्र यदि नास्तित्वं वस्तुरूपं न सम्भवेत् ॥ ३२७ ॥ अस्तिता न विनाऽपेक्षां नास्तिताऽपि न तां विना । नैकस्मिन्निति सूत्रं तु स्याद्वादेनावलोक्यते ॥३२८ ।। अस्तिता यत्र कालेऽस्ति तत्कालेऽस्ति च नास्तिता । वर्तनां चैककालेषु षड्द्रव्येषु विलोकय ॥३२६ ॥ स्यादस्तिनीस्तभंगश्च तृतीयः कथितः पुनः । षड्गव्यव्यापको ज्ञेयो जैनदर्शनमर्म तद् ॥३३०॥ अस्तिशब्दसमुच्चार यान्ति काला असंख्यशः । नास्तिशब्दसमुच्चारे तथैव भगवान् जगौ ॥३३१ ॥ एकस्मिन् समयेऽवाच्य मस्तिनास्तिस्वरूपकम् ।। तुर्यभंगोऽस्त्यऽवक्तव्यः कथितः सूरिपुंगवैः ॥३३२ ॥ अस्तिधर्मा अनन्ता हि येऽत्र वाचामगोचराः।। स्यादस्त्यऽवाच्यभंगोऽयं पंचमः परिकीर्तितः ॥३३३ ।। अनन्ता नास्तिधर्मास्तु वस्तुमध्ये वसन्ति हि ।। स्यानाऽस्त्यवाच्यभंगोऽयं षष्ठोऽपि परिकीर्तितः ॥३३४॥ अस्ति नास्ति सदा द्वौ स्तो निर्वक्तव्या विमौ मतो। स्यादस्ति नास्त्यवक्तव्यो युगपत्सप्तमो मतः ॥३३५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com