SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २७ स्वद्रव्येण स्वकालेन स्वक्षेत्रेण स्वभावतः । अस्तित्वमितिभंगेन स्वद्रव्ये चित्तमानय ॥३१२॥ जीवादिनवतत्त्वेषु स्यादस्ति भंग आदिमः। कदापि नहि यद्वस्तु तत्कदापि न जायते ॥३१३ ॥ धर्माधर्मों नभः कालो जीवस्तथा च पुद्गलः। षड्द्रव्येष्वस्तिभंगो हि समयं प्रति वर्तते ॥३१४॥ साम्प्रतं माविभूतेषु त्रिकालेषु प्रवर्तते । स षद्रव्येषु वेत्तव्यः स्यादस्तिभंग आदिमः ॥३१५ ॥ समये समये ज्ञेया तदनन्तगुणाऽस्तिता। वर्तमाना निजद्रव्ये सिद्धान्ते प्रतिभाषिता ॥३१६ ॥ द्रव्ये द्रव्ये विबोद्धव्या भिन्नभिन्ना हि चाऽस्तिता । द्रव्यगुणपर्यायाणा मस्तिता माति चात्मनि ॥३१७॥ ये च पुद्गलपर्याया दृश्या घटपटादयः। अस्तितां च तदाकारां साद्यन्तत्वेन पश्यत । ॥३१८॥ द्रव्यार्थिकनयो ज्ञेयो मंगोऽनादिरनन्तकः । अस्ति स पुद्गलव्यापी सादिः सान्तश्च पर्यवैः ॥३१६ ॥ स्यामास्तिभंग मन्यं तु नास्तिताज्ञानकारकम् । षड्द्र्व्य व्यापिनं तं च विद्धि सापेक्षया पुनः ॥३२० ॥ अन्यद्रव्याऽन्यकालाभ्या मन्यक्षेत्रान्यभावतः । नास्तिताऽन्यपदार्थानां सदा स्वेषु प्रवर्तते ॥३२१ ॥ परापेक्षां च संगृह्य नास्तिता घटते निजे । षद्रव्ये परभावेन नास्तिता च प्रवर्तते ॥३२२ । परद्रव्यास्तिता या च नास्तिता सैव वर्तते । परिणमति सर्वत्र स्वस्वद्रव्येष्वपेक्षया ॥३२३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy