________________
स्वपूर्वजन्मनोऽभ्यासैः सिद्धाऽस्ति जीवनित्यता । बाल्ययौवनवार्धक्ये ज्ञाता त्वेको हि वर्तते ॥२७६ ॥ क्षणे क्षणे शरीरैक्ये स्वात्माऽयं परिवर्तते । पापं पुण्यं भवेत्कस्य तद्विवेकं तथा कुरु ॥२७७ ॥ क्षणिकद्रव्यविज्ञानै स्तं वादं क्षणिकं सर । वक्ता न क्षणिको जातो नित्यत्वेन तमानय ॥२७८ ।। कस्यचिद्वस्तुनः क्वाऽपि विनाशो नास्ति सर्वथा । आत्मनाशप्रवादेन स्वान्यावस्था तदा भवेत् ॥२७६ ॥ अन्यावस्थां न कस्याऽपि तस्मानित्योऽस्ति चेतनः । प्रत्यभिज्ञाऽनुमानेन स्वात्मा नित्योऽस्ति जानत ॥ २८० ॥ पर्यायाः परिवर्तन्ते ह्यात्मनोऽपि प्रतिक्षणम् । तस्मादनित्य आत्माऽय मनेकान्तनये खलु ॥२८१ ॥ शुभाशुभास्रवं धृत्वा नानादेहान् बिभर्त्ययम् । भुनत्यसातसाते च व्यवहारनयेन च ॥२८२ ।। सूर्याच्छादकमेघानां नाशात्सूर्यः प्रकाशते। तथाऽऽस्रवविनाशेन वात्मा ज्ञानेन भासते ॥२८३ ॥ कर्मसंगापसारेण याति जीवः शिवं पुरम् ।। पुरुषोत्तम आत्माऽयं भवेत्सिद्धो निरञ्जनः ॥ २८४ ॥ अगम्यात्मस्वभावस्य शुद्धाऽऽलम्बनकारकः । संवरी चास्त्रवत्यागी तर्ताऽस्ति भवसागरम् ॥२८५ ॥ योगिनोऽपि यमिच्छन्ति धामानन्यमुखस्य यः । नौमि नौमि तमात्मान मनन्तगुणसंश्रयम् ॥२८६ ॥ शुभात्मनोऽवलम्बन दोषाः नश्यन्ति भूरिशः । जायतेऽनुभवज्योतिः पुष्णात्याऽऽत्मा स्ववीर्यतः॥२८७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com