SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कर्मभेदविनाशेन स्वात्मा जिनो भवेत्स्वयम् । पूर्णव्याक्तिमयः स्वाऽऽत्मा को राजा कोऽस्ति किंकरः॥२८॥ तुल्यता सर्वसिद्धानां सिद्धस्थाने च मान्ति ते । पीड्यते कोऽपि नो कैश्चिदरूपपदशक्तितः ॥२८६ ॥ विषमज्वरवेगेन भोजनस्यारुचि भवेत । अभव्यादिकजीवानां मोक्षरुचि न जायते ॥ २६० ॥ सम्यज्ज्ञानप्रभावेण बहिरात्मपदात्ययः । वासः शिवपुरस्य स्या-दन्तरात्मगुणोदयात् ॥ २६१ ॥ समूलं तत्र छिद्यन्ते परप्रवृत्तिहेतवः । अन्तः परप्रभुत्वं तु समभावेन जायते ॥२१२॥ परभावस्य कर्ताऽहं भवमूलमियं मतिः । अन्तरात्मपदो योगै निर्दोषो जायते स्वयम् ॥२६३ ॥ स्वमाश्च कोटिवर्षाणां दीयन्ते जागृतिक्षणे । तथाऽऽत्मज्ञानमात्रेण क्षणादात्मा प्रभु भवेत् ॥ २६४ ॥ देहे चेतनबुद्धि र्या देहाध्यासं विजानत । देहाध्यासविनाशेन कर्मदोषोऽपि नश्यति ॥२६५ ॥ कर्मणां नैव कर्ताऽहं तेषां भोक्ताऽपि नास्म्यहम् । शुद्धदशाप्रकाशे तु भवभीति विनश्यति ।। २६६ ।। मोक्षश्चेतनधर्मेण मोक्षरूप स्त्वमस्यहो। रत्नत्रय्याश्च भोगी त्वं भूपः क्षायिकशर्मणाम् ॥ २६७ ॥ जायन्ते वीचयोऽम्भोधौ विनाशं यान्ति तत्र हि । चेतनस्य तथा ज्ञानं ज्ञेयत्वात्परिवर्तते ॥२६८ ॥ शुद्धोऽथ निर्मलो बुद्धः स्वयंज्योति गुणालयः । चेतनोऽयं चिदानन्दः परानन्तगुणाकरः ॥ २६8 । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy