SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ मम नास्ति मनो वाणी जडे कार्ये हि ते ननु । नाभ्यां सह निवासेन मम लज्जा न रक्ष्यते ॥२६४ ॥ रमे हसामि कैः सार्द्ध ममत्वं केषु वा दधे। मृगनीरोपमा द्रव्ये ममतायाः स्थितिः कुतः ॥२६५ ॥ जडवस्तुहि मे नास्ति लिप्तः स्याँ किञ्च संसृतो।। किमर्थ हेतुना केन मह्यां जन्म गृहीतवान् ॥२६६ ॥ पतितो व्यर्थपाशेषु शर्म किञ्चिन्न वेद्यते । सत्यमार्गप्रवासेन किंचित्ते जायते भयम् .॥ २६७ ।। शरीरमसि न त्वं तु शरीरं मृद्विकारवत् । पतत्यश्वत्थपत्राभं तस्माचेतन ! जागृहि ॥२६८ ॥ सर्व ज्ञानेन पश्यामि दूरं मत्तोऽखिलं पुनः । प्रतिबन्धो न कस्याऽपि शूरोऽहं सिंहसन्निभः ॥ २६ ॥ रागो द्वेष स्तथा निन्दा व्यनश्यत्तद्रलं बहु । आत्मा स्वाभिमुखो भूत्वाऽनुभवं स्वं तनोति च ।। २७० ॥ शत्रुणा नैव च्छिद्येऽहं भिद्येऽहं नैव शस्त्रतः। शत्रौ मित्रे समो भावः कथं वा स्यान्मम भ्रमः ॥ २७१ ॥ सर्वे कर्मवशा जीवा भ्राम्यन्ति निश्चितं भवे । पुत्रमित्रवधूभावैः सम्बन्धः सर्वदेहिषु ॥२७२ ॥ सम्बन्धो न कचित्सत्यः संसारः स्वार्थतत्परः । कस्यचित्कोऽपि नो भूमौ संवेग हृदि धारय ॥२७३ ॥ सिद्धवनिखिला जीवा निर्मला निश्चलाः सदा । करणत्रययोगेन ते सेव्याः शुद्धभावतः ॥ २७४ ॥ द्रव्यार्थिकनय नित्य-स्तस्य नाशः कदापि न । असंख्यातप्रदेशेन ध्रुवः स स्वस्वरूपवान् ॥२७५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy