SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ २२ व्यापको बध्यते नैव पकेनैव यथा नभः । अन्यथा सुखदुःखानां प्राप्तिः स्यात्सर्वतः खलु ॥ ३५२ ॥ सर्वत्र व्यापकश्वेत्स्या कदापि नव बध्यते । मन्यते चाज्ञता तर्हि सद्युक्ति नँव दृश्यते ॥ २५३ ।। अव्यापक आत्माऽस्ति सन्देह स्तत्र कोऽपि न । व्याप्यव्यापकबोधेन निःसन्देहो भविष्यति ॥२५४ ॥ शैलेशी हि दशां प्राप्य स्वात्मा व्यापक उच्यते । असंख्यातप्रदेश हि जानन्तु भव्यमानवाः ॥ २५५ ॥ व्यापकोऽव्यापकश्चाऽस्ति चेतनोऽयं गुणाकरः । अनेकान्तावबोधेन शिवधाम लभस्व च ॥२५६ ॥ साद्यादिभंगयोगेन व्यापकोऽस्त्येष चेतनः। स्याद्वाददृष्टितः सत्यं मनस्यानय बुद्धिमन् !!! ॥ २५७ ॥ केवलज्ञानतः स्वाऽऽत्मा सर्वत्र व्यापकः खलु । स्वाऽन्यप्रकाशकः स्वाऽऽत्मा भवत्येव प्रदीपवत् ॥२५८॥ प्रकाशते यदा सूर्या वर्तते किं तमोभरः । ज्ञानदीपप्रकाशेन नान्धकारः प्रवर्तते २५६ ॥ आत्माऽद्वैतस्वरूपोऽयं जडभिन्नो विचार्यताम् । द्वैतत्वमपि तत्राऽस्ति सैकोऽनेकाश्रयः खलु ॥२६० ॥ आत्माऽक्षरस्वरूपोऽस्ति गुणवानस्त्यनक्षरः। आत्माऽसंख्यप्रदेशेषु शुद्धस्थैर्य प्रवर्तते ॥२६१ ॥ मासितः स्वात्मनि स्वोऽहं महाज्ञान मपासरत् । स्वस्य भानं यदा जातं वीर्योल्लासस्तदा भवेत् ।। २६२ ।। जंडेन्द्रियाणि किं कुर्यु स्तेभ्योऽहं तु पृथक् स्थितः । तानि जडस्वरूपाणि दीनानि क्षणिकानि च ॥२६३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy