SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सम्यजज्ञानक्रियाभ्यां तु साक्षान्मोक्षः प्रजायते । आत्मनो ध्यानबोधाभ्यां मोक्षं त्वरितमाप्नुहि ॥ २२८ ॥ ब्रह्मणः सृष्टिरुत्पन्ना ब्रह्मरूपमदोऽखिलम् । व्यापकः सोऽस्ति सर्वत्र चिदानन्दो गुणालयः ॥ २२६ ॥ मायाया अतिवेगेन ब्रह्मभानं च विस्मृतम् । एकरूपं हि सर्वत्र ज्ञानमद्वैतवादिनः ॥ २३० ॥ शुद्धस्य ब्रह्मणोंऽशा हि येऽनन्ता जीवराशयः । परमात्मनि ते मान्ति द्वैतत्वेन न पश्यत ॥ २३१॥ मन्यन्ते ब्रह्मणो ज्ञानं ब्रह्मध्यानेषु तत्पराः। द्वैतत्वं नैव मन्यन्ते वाक्यमद्वैतवादिनाम् ॥२३२ ॥ सत्यमाच्छाद्यते नैव सत्यमाच्छाद्य मस्ति न । वंशपात्रेण सूर्योऽय माच्छाद्यते कदापि न ॥२३३ ॥ जडचेतनभेदेन द्वैतत्वं च प्रकाशते। एकरूपं कथं ब्रह्म सुखं दुःस्वं भुनक्ति तत् ॥२३४ ॥ जडो जडतयाऽस्त्येव जडनाशः कदापि न । तदसद्वाचि को हेतु-ज्ञानिन् !! धन्योऽसि युक्तिमान्॥२३॥ जीवाजीवौ तु तत्त्वे द्वे वंद्यते ज्ञानिना स्वयम् । मुधैकस्मिन् वृथा ज्ञाते सम्यग् धर्मो न संभवेत् ॥ २३६ ।। ज्ञानी ज्ञानेन गृह्णाति सत्यरूपं हि वस्तुनः । द्वैतत्वं मन्यते. चाऽपि भवकूपे न मञ्जति ॥ २३७ ॥ एक एव हि. भूताऽऽत्मा जीवे जीवे व्यवस्थितः। चन्द्रबिम्बं जले यद्वत् तद्वन्यायं विचारय. ॥ २३८ ॥ एकान्तब्रह्मसत्तां च मन्यन्तेऽद्वैतवादिनः । एकान्तसंग्रहेणाऽसौ भवाब्धि च कथं तरेत् ॥२३६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy