SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ तालपूटविषांशेन हन्यन्ते हस्तिनोऽसवः । स्वस्वधमै महत्सर्व-मनेकान्तनयेन तत् ॥२१६ ॥ ईश्वरेण कृता सृष्टिः कदापि नैव कथ्यते ।। विवेकिनश्च जानन्ति हृदि सद्युक्तिमाप्य च ॥२१७।। तदर्थ एक एवाऽस्ति जीवो वाच्योऽथ चेतनः । ईश्वरसम प्रात्माऽस्ति कर्ता त्वीशो न निश्चितः ॥ २१८ ॥ चतुरशीतियोनौ तु जीवा भ्रामन्त्यनन्तशः ते काष्टकयोगेन लभन्ते दुःखसंचयम् ॥ २१ ॥ अनादिकालतो धृत्वा कर्मराशिं स जीवति। बध्यते त्यज्यते कर्म पराशां कुर्वताऽऽत्मना ॥२२० । भवितव्यत्वयोगेन कर्मनाशश्च जायते । अचलात्मस्वरूपस्य विकाशः स्यात्स्वभावतः ॥ २२१ ॥ ईशो विभुः परब्रह्म सुखधाम परेश्वरः । सोऽहंसोऽहं पदप्राप्तं प्रणमामि तमीश्वरम् ॥२२२ ॥ कर्मक्षयेण जीवस्तु जायतेऽनन्त ईश्वरः।। एकानेकात्मसिद्धात्म-तत्त्वं ज्ञान्यवगच्छति ॥ २२३ ॥ कर्मक्षयात्समाः सिद्धा ज्ञानी जानाति बोधतः । भिन्नास्ते व्यक्तिरूपेण तुल्या व्यक्तगुणै स्तथा ॥ २२४ ॥ रागद्वेषौ न यस्य स्तः परभावे रति नहि । अनन्तात्मस्वरूपे यः रममाणः स शुद्ध्यति ॥२२५ ॥ ध्यानेन चेतनं स्वीयं वेत्ति सत्प्रभुणा समम् । ध्याता ध्येयं तथा ध्यानं तदैक्येन भवेत्प्रभुः ॥२२६ ॥ सहस्रधा त्वहं वन्दे तादृशं सिद्धमीश्वरम् । सम्यग्बोधेन तस्याहं भवपारं लभे यथा ॥ २२७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy