SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ न जन्येत जडं वस्तु, श्रीश्वरेण कदाचन । नेशे जडस्वभावोजस्ति चेतसीति विचिन्तय ॥२०४ ॥ अनन्ता शक्तिरीशस्य जडशक्ति लघीयसी । जन्यते सृष्टि रीशेन युक्ति मेतां विचारय ॥२०५ ॥ युक्तिहीनविवादोऽस्ति श्रीशकर्तृत्ववादिनः । धर्मों जडेशयो द्वौ हि भिन्नो तो स्तो दिवानिशम् ।। २०६।। द्वयोरपि पृथग् धर्मों द्वावपि भिन्नधर्मिणौ । साकारोऽन्यो निराकारो रूप्येको रूपवर्जितः ॥२०७॥ अनन्ता पौद्गली शक्ति श्चिच्छक्तिरपि भूयसी। ज्ञातृत्वं चेतनाशक्ति जडशक्तिस्तु पौद्गली ॥२०८ ॥ तत्र शक्तिः स्वभावेन परतन्त्रो न कोऽप्यथ । निश्चयनयतो विद्धि ज्ञानी वदति चेदृशम् ॥ २० ॥ अस्तिताऽनन्तशक्तीनां,-निजद्रव्येण वर्तते । परापेक्षां च संगृह्य नास्तिताऽपि प्रवर्तते ॥२१० ॥ अस्तिताऽनन्तशक्तीनां,-नास्तितैवाऽवलोक्यते । षड्व्य व्यापिनी तां तु निश्चयेनेति जानत ॥२११॥ चेतनाच्चेजडोत्पत्तिः खराच्छंगं तदा भवेत् । स्वप्नसुखाशिकां सत्यां तदा सत्येन जानत ॥२१२ ॥ ईशस्थानन्तशक्तिस्तु श्रीश्वर एव माति सा कृपच्छाया यथा कूपे तद्वन्यायं विचारय ॥२१३॥ जडशक्ति रनन्ताऽस्ति दृश्या पुद्गलधर्मतः। वर्णादिकमभूत्तत्र नान्यः कर्त्ताऽस्ति कश्चन ॥२१४ ।। निजाऽऽत्मापेक्षया शक्ति जडस्याऽस्ति लघीयसी । ज्ञात्वा सापेक्षया सर्व क्लेशं चेतसि मा कुरु ॥२१५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy