________________
नैयायिका वदन्त्येवं सत्यं कर्तेश्वरो मतः। किन्तु युक्त्याऽवलोकेन तदसत्यं हि भासते ॥१९२॥ ईशेच्छया कदाचिच्च सृष्टि निर्मीयते नहि। निमित्तेच्छा यदि प्रोच्या स्वभावोऽपि कथं नहि ॥ १६३॥ तत्र लभ्यं प्रमाणं किं दूरे कार्यः कदाग्रहः । स्वभावयुक्तित श्चेत्स्यानहि दोष स्तदा भवेत् ॥१६४ ॥ तिरोभावात्मिका शक्ति-र्योपादाने प्रवर्तते तदाऽऽविर्भावतैवाऽस्ति निजव्यक्तिः प्रपूरिता. ॥१९५ ॥ वर्ततेऽनादिकालेन शुद्धशक्तिश्च वस्तुनि । आविर्भावाय तस्याऽस्तु निमित्ताभिधकारणम् ॥१६॥ आविर्भावस्तु धर्मस्य-कार्यरूपं हि जायते । घटस्य मृत्तिका हेतु रनन्यं कार्यमुच्यते ॥ १७ ॥ नश्यति कारणं नैव घटनाशे कृते सति । नित्यत्वाद्वर्तते हेतु मृत्तिकारूपमेव सः ॥ १६८॥ स्वभावो नियतिः काल उद्यमः कर्म पंच च । कार्य प्रति सदा हेतु मनस्यन्यन्न चिन्तय ॥१६॥ रागरोषौ न यस्य स्त ईश्वरः स च कथ्यते । तस्येच्छा चेत्प्रवाच्या स्या दीश्वरत्वं तदा ब्रजेत् ॥२००। ईश्वरः कृतकृत्योऽभू-दिष्यते तेन किं पुनः । इच्छा. यत्र ततो राग-द्वेषौ ताभ्यां च दुर्गतिः ॥ २०१॥ इच्छा हि भवमूलं स्याद् रागद्वेषसहायिनी । ईश्वरेच्छा यदा प्रोक्ता प्रतीपो मोह पागतः ॥२०२ ॥ नेच्छा तत्र कथं सौख्य मेवं चेत्कोऽपि संवदेत । समाधौ तु सुखानन्त्य मिच्छा तत्र न जायते ॥ २०३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com