________________
किम्वा निमित्तहेतोः स्याद् विनोपादानकारणम् । उपादानं च को वाच्यः सत्यं ज्ञानेन वेद्यते ॥१८० ॥ जायते कार्यतः पूर्व सद्भावः कारणस्य च । कार्य मेवंविधं न स्याद् विनोपादानकारणम् ॥११॥ अतिभिन्न मुपादाना-निमित्तं कारणं सखे ! शक्तिभि भिन्नभिन्नाभि रेकयोगः कथं भवेत् ॥१८२ ॥ ईश्वरो नहि कल्प्येत कदापि सृष्टिकारणम् । न चेत्स रासभोऽपि स्यात्सद्युक्तिया॑य ईक्ष्यताम् ।। १८३ ।। पृथ्व्यादिपरमाणूश्चेद् धृत्वा सृष्टिं करोति सः एवं चेदीश्वरे विद्याच् चैतन्यं कुत आगतम् ॥१८४ ॥ परमाणुसम्हैस्तु जडकार्य प्रजायते ।। चेतनस्तु ततो भिन्नः पावकोऽस्ति यथाऽरणौ ॥१८५॥ अनादिपुद्गलद्रव्यं तथा जीवोऽप्यनादिकः ।। निश्चयेन द्वयं भिन्न भिन्नशक्ति मपि स्मर ॥१८६॥ जडे जीवपरीणामो व्यवहारनयात्खलु। विनाऽनेकान्तविज्ञानं सम्यक् सारमुपैति न ॥१८७॥ द्रव्याण्यनादिकालेन षद् तत्कर्तेश्वरः कथम् । ईशशक्तिरनित्याऽस्ति नित्या वेति विचारय ॥१८८॥ नित्या कर्तृत्वशक्ति श्चेज-जगन्नित्यं भवेत्त दा । ईशशक्ति रनित्या चेद्विनश्येत्तजगच्क्षणे ॥१८६ ॥ यथा कर्तृत्वशक्तिःस्या-त्कार्य भवति तादृशम् । नित्यानित्यविवेकेन पक्षों द्वावपि दूषितौ ॥१०॥ यदीशः साकृतिः कथ्य स्तदाऽपि दूषणं भवेत् । पूर्वापरविचारेण दोषा आयान्ति भूरिशः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com