SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ केचिल्लोकाश्च मन्यन्ते कर्तारमीश्वरं भुवि । ईशो दुःखं सुखं दत्ते वचोऽप्येतन्मृषा मतम् ॥१६८॥ द्वौ भेदावीश्वरस्य स्तो जीवसिद्धप्रकारतः । स्वस्वकर्मविधातारं जीवं जानत चेतसि ॥१६॥ कृत्वा कर्म नवं जीवः स्वस्य दुःखसुखप्रदः। कर्ता भोक्ता च जीवोऽस्ति जीवः स ईश्वरो मतः ॥१७०॥ चेतनमीश्वरं विद्धि व्यवहारनयेचतः । ईश्वरोऽशुद्धनीत्याऽस्ति सापेक्ष मिति जानत. ॥१७१ ॥ कर्ताऽन्यपरिणामेन चेतन ईश्वरो भवेत् । शुद्धनिश्चयनीत्या तु कर्म नैव करोति सः ॥१७२ ॥ सुखकर्ता खभावेन दुःखकर्ताऽविभावतः । आत्मा स्वगुणकर्ताऽन्यपरिणामविनाशतः ॥१७३॥ एकान्तपक्ष माधत्ते वेत्ति सापेक्षया नहि । संवदनीशकर्तृत्वं भ्रान्तः स निरपेक्षतः ॥१७४॥ यस्य कर्ममलं नास्ति निराकारः प्रभुः स्मृतः । कसै प्रयोजनायेशो जगत्कर्तेति जानत ॥१७५ ॥ नाभिमानं नचेच्छाऽस्ति शिवसिद्धपरप्रभौ । किं स सृष्टिविधाता स्याद्भानं विस्मृत्य मन्यसे ॥ १७६ ।। उपादानं यथैव स्यात्कार्यं भवति तादृशम् । निराकारेण चेशेन जडसृष्टि ने रच्यते ॥१७७॥ अभिन्नं जायते कार्य मुपादानाव्यकारणात् । ईश्वरचे दुपादानं सृष्टिरूपस्ततो भवेत् ॥ १७८ ॥ उत्पत्तौ चेद्भवेदीशो निमिचं नामकारणम् । नित्या शक्ति स्तदेशस्य वाऽनित्येति विचारय ॥ १७६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy