SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ धनाशाधारका धूर्ता वश्चयन्ति जनान्भृशम् । अात्मधर्म विना धर्मो नास्ति मालादिधारणात् ॥१५६ ॥ मत्वा मिथ्या च संसारं तस्य मोहं परित्यजन् । योगाभ्यासरतो भूत्वा नाशयत्यखिलं मलम् ॥१५७ ।। स्वगुणान्वेषणेनैव नश्यति कर्मणां मलम् । तदा प्रकाशते स्वान्त-श्चिदानन्दविलासनम् ॥१५८ ॥ स्वर्द्धिज्ञानानिजात्माऽयं व्यक्तत्वेन निरीक्ष्यते । बाह्यार्द्धमोहतो दीना भ्रमन्ति मोहतो भवे ॥१५६ ॥ यौवनं च धनं देहो विद्युद्भाइव कृत्रिमम् । न सहैति भवेऽन्यमिन् मूढा मुह्यन्ति तत्र हि ॥१६०॥ केचिजीवा जडयर्थ नन्ति जीवाननेकशः। धूल्याभं जीवनं तस्य भस्माभं तद्विजानत ॥१६१ ॥ जनान्वञ्चयति स्वार्थ प्रोच्याऽसत्यवच श्च यः ।। भृत्वा सत्कर्मणां गोणी दुःखी जन्मनि जन्मनि ॥१६२ ।। स्तेनः कर्णजपोऽन्येषा मपमानी च निन्दकः । स्वार्थी जनश्च संसारे-नरकस्यातिथि मतः ॥१६३॥ प्रशंसयति चात्मान-मभिमानं करोति च । लभते धर्मगुह्यं न निर्विवेकी च पापवान् ॥१६४॥ चित्ते परापकर्षेऽस्ति तथाज्यस्य कलङ्कदः ।। योमुदाऽऽरभते पापं गालिं दत्तेऽतिकोपतः ॥१६५ ॥ पापपुण्ये न जानाति गुरुबोधं दधाति न । जीवो नास्तिकवादी स किं शोधयति चेतनम् ॥ १६६ ॥ एकान्तं यो मतं धत्ते सोऽज्ञानी जीव उच्यते । भवे भ्राम्यत्यसौ नित्यं न धत्ते शाश्वतं सुखम् ॥ १६७ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy