________________
सेवनाच्छाश्वती सम्पत् दूरं दारिद्रयमीक्षणात् । वन्दनाल्लाति वन्द्यत्वं गुरवो गिरिभिः समाः ॥१४४ ॥ अजोऽविनश्वरो जीवो ह्यखएडानन्दपूरवान् । अन्तर्दृष्ट्यावलोकेन स्वयमात्मा स्वसन्निधौ ॥१४५ ॥ स्वधर्म चेतने पश्य बहिऱ्यानं करोषि किम् । बाह्यदृष्ट्यावलोके तु भवः स्यादरहट्टवत् ॥१४६॥ ध्यानं च धारणां कृत्वा स्वात्मरूपं विलोकय । बाह्योपाधिपरित्यागै श्चिद्रूपं शाश्वतं भव . ॥१४७ ॥ जगद्वदति मूढोऽयं जगन्मूढं हि वेत्ति सः । आत्मवित्सुखमाप्नोति ह्यन्तर्गुह्यमिदं यतः ॥१४८॥ रागद्वेषपरीणामग्रन्थिस्तत्र तु छिद्यते। पुद्गलमोहशून्यत्वा-च्छान्तिश्च सहजा भवेत् ॥१४६ ॥ भासते त्वेक एवात्मा सोऽहं सोऽहं समाधितः ।। तत्त्वमस्यात्मकाकारे चिदानन्दात्मकः प्रभुः ॥१५० ॥ तथैवात्मदशा जाता स्थैय्यं च स्वगुणान्तरे । वशे मनाकपि यस्य क्वचिदुःखं न पश्यति ॥१५१ ॥ बाह्यरागेण जीवाश्च स्वेच्छाचाराश्च मुण्डिताः।। वश्चयन्ति जनान्पापा धृर्ता आटोपकारिणः ॥१५२ ॥ पानेऽशने तथाऽऽधाने वेषे धर्माभिमानिनः । सत्यधर्म न जानन्ति प्रत्युत कर्मबन्धकाः ॥१५३ ॥ सत्यदेवं न जानाति मिथ्या शिक्षां ददाति च । उदरार्थी हठी क्लेशं लभते कुगुरुः स्वयम् ॥१५४ ॥ न जहाति मनोमायां त्यागिवेशं दधाति च ।। कौपीनवस्त्रतो लोकान् वश्चयत्येव वश्चितः ॥१५५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com