________________
सत्यधर्म न जानन्ति तथाप्युपदिशन्ति ते । धर्ममर्मावबोधेन विना क्लेशं वहन्ति ते ॥१३२ ॥ अतिस्त्रीविषयासक्ति स्त्यागवैराग्यवर्जितः । लज्जयेत्साधुवेषं स यस्य चित्तं सदा चलम् ॥१३३ ॥ शिष्यो भूत्वातिकोपेन वर्तते गुरुणा सह । करोत्यात्महितं नाऽसौ विनयी याति सत्पथम् ॥ १३४ ॥ कपटी कृष्णकाकाभः कर्मचाण्डालकागुरुः। तत्संगो नैव कर्तव्यः संभ्रमच्चक्रवद्भवे । ॥१३५ ।। त्यक्त्वा बाह्यममत्वं त्वं धनमन्तर्विलोकय । अन्तर्धनं हि धर्मोऽस्ति सत्यमेवं विचारय ॥१३६ ॥ ऋद्धयोऽन्तर्धनस्यता अरूपा स्त्वयि संस्थिताः । ताश्च विस्मृत्य रे जीव !! किमन्यत्र प्रयास्यसि ॥ १३७ ॥ दुःखान्यन्यप्रयासेन पराधीनोऽन्यसंगतः । लीनोऽन्यपरिणामे यो भवान्तं न करोति सः ॥ १३८ ॥ वकं भ्रमति संसारी त्यागिनां सरला गतिः । भवभजनवीरेभ्यो गुरुभ्योऽस्तु नमोनमः ॥१३६ ॥ लनमाञ्जिष्ठरागस्तु कदापि नैव नश्यति । तद्वन्निजात्मरागेण कदाचिन्न विनश्यति ॥१४ ॥ पुत्रपुत्रीस्वदारेभ्योऽप्यधिकं प्रेम चेद् गुरौ । प्राणाधिकगुरुप्रेमी भवाब्धि तरति स्वयम् ॥१४१॥ एक एव गुरुर्देवः पिता तत्र न संशयः । धर्मगुरुः स एकोऽस्ति मुनिरन्यो गुणालयः ॥१४२ ॥ सदा धर्मगुरोरिप्सा भक्ति धर्मगुरोः सदा । वह धर्मगुरुं चित्ते सेवस्व स्वस्वशक्तितः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com