________________
परदेशममत्वे हि नष्टे ज्योतिः प्रकाशते । स्वत प्रात्मस्वरूपस्य महोद्योतः प्रकाशते ॥६६॥ पुद्गलानां पृथक् जाति मम जाति स्ततः पृथक् । भिन्नजात्या च कः संग स्ततः खिन्नो भवाम्यहम् ।। ६७ ॥ अनादिकालतः संग स्तत्र मैत्रममन्यत । रागद्वेषस्य योगेन विचित्र देहमासदत् ॥ १८ ॥ आत्मपुद्गलसंगस्तु दुग्धसलिलसंगवत् ।। अनादिकालतो जातः कुर्वन्कर्म च कुत्सितम् ॥ १६ ॥ अशुद्धपरिणामेन कर्ता कर्म च कथ्यते । शुद्धपरिणते र्योगै-रात्मा शुद्धो निरंजनः ॥ १०० ॥ पुद्गलस्याशनाधान वासो गेहश्च पुद्गले । तत्र वासं मुधा कृत्वा सुखबुद्धिं विवेद च ॥१०१ ॥ इदानीं किं रमे मोहे यस्य क्रूरगतिः किल । तन्मध्ये संगतो नूनं व्याकुलोऽहमहोऽभवम् ॥ १०२॥ स मोहो नास्ति मे मित्रं तत्स्वभावो न शोभन: हाहा तेषां हि संगेन ह्येवं जाता मम स्थितिः ॥ १०३ ॥ चतुरशीतिलक्षाङ्क, हट्टागतिचतुष्पथे । बहुधोत्पद्य मृत्वा च ह्यपारदुःख माप्तवान् ॥ १०४ ॥ रागः पुद्गलसंगेऽस्ति रोगः पुद्गलसंगमे ।। पुद्गलमोहतः शोकः पुद्गलेष्वरुची रुचिः ॥ १०५ ॥ गृहपुद्गललोभेन युद्ध्यन्ति मनुजाः स्वयम् । राजानः सज्जनाः श्रेष्ठा व्यर्थ जन्म धरन्ति ते ॥१०६ ॥ स्वगुणानां भवेद्धानि-र्मोहमैत्र्यात्सुनिश्चिता । मूढाऽऽत्मानोऽशुभज्ञाना-स्तेऽरण्यगवयैः समाः॥ १०७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com